________________
AcharyanKadamagranGamana
देशना पापघातिनी । परवचनतो देही, दारुणं दुःखमश्नुते ॥ १६८ ॥ ये जनाश्छलयन्त्यन्यान्, कूटकर्मविधायिनः । आत्मानं पातयन्त्येते, विषमाऽऽपचिसागरे ॥ १६९ ॥ परधनहरणे विरता-गुणिनः प्रतिमास्थिताः सुशीलाश्च । उभयस्मिन्नपि लोके, सुखिनः स्यु गदत्ताइव ॥ १७०॥ इत्थं मुनिमुखाम्भोजा-द्विश्वासघातजं फलम् । निशम्य भूपतिः प्राप, भृशं दुःखं प्रियान्वितः ॥१७१॥ पुनर्नत्वा मुनि सद्यः, पार्थिवः स्वनिकेतनम् । भाजगाम प्रियायुक्तः, पश्चातापपरायणः ॥ १७२ ॥ वर्षान्तेऽलङ्कृतीः सर्वा-लघुभ्रात्रे ददौ नृपः । तत्कर्मबन्धजं पापं, वज्रलेपमिवाऽभवत् ॥ १७३ ॥ ततस्तेषां मिथः प्रेम, ववृधे पूर्ववत्पुनः केशमूला हि लोकाना, विपदः सुलभाः सदा ॥ १७४ ॥ सभार्यः कामजिद्भूपः, स्वमित्राभ्यां सहाऽन्यदा । क्रीडावनमभीयाय, द्रुमश्रेणिविराजितम् ॥ १७५ ॥ विकसद्वारिजश्रेणि, महासागरसन्निभम् । यादोभिर्विविधैर्जुष्टं, सर: सारसकूजितम् ।।१७६ ॥ निर्मलाऽम्बुभृतं वीक्ष्य, पयः पीत्वा च भूपतिः । समित्रः कौतुकाक्रान्तो-मीनादीनथ दृष्टवान् ॥ १७७॥ ग्राहमेकं महादंष्ट्र,-माकृष्य तत्तडागतः। नृपतिः क्षेपयामास महागतेऽविचारतः ॥ १७८ ॥ संजातकृपया सद्यः, पुनस्तं तत्र मुक्तवान् । अग्रतस्ते ततश्चेलु-र्वनसंपत्तिमीचितुम् ॥ १७९॥ ब्रजन्तं रात्निकं कश्चि-द्वत्मनि वीक्ष्य पार्थिवः । रत्नानि तस्य सर्वाणि, जहार कौतुकी बलात् ॥ १८० ॥ रत्नक्रेतातिनिर्विएणो-विह्वलीभूतमानसः । हा ! करोमि किमयेति, नृपेण मुषितोऽरुदत् ।। १८१ ॥ दुःखितं तं भृशं दृष्ट्वा, कपाश्कृरितमानसः । सद्बोधस्मरणापस्तस्मै तद्धनमार्पयत् ॥ १२॥ ब्रजन्तस्तेऽग्रतो दिव्यं, देव्या मन्दिरमासदन् । तत्रैकां कन्यकां देवीं, पूजयन्ती व्यलोकयन् ॥१८३॥ कुमार्याः कण्ठपीठस्थं, रत्नहारमनुत्तमम् । विलोक्य महिषी लातुं, तमियेष विमोहिता ॥ १८४ ॥ निजपल्या
For Private And Persone
n