________________
श्री
एकादश सर्गः।
मीमसेनचरित्रे।
॥ ५८1
षष्ट्यां स्थाशोजनाऽरुचिः।। ६७ ।। सप्तम्यां तु भवेन्मूर्छा-ऽष्टम्यामुन्माद उन्वणः । नवम्यां प्राणसन्देहो, दशम्यां प्राणविच्युतिः॥ ६८ ॥ तदसौ सुन्दरी मास्म, म्रियतां मद्वियोगतः । ध्यात्वेति स युवा धैर्य, समाधाय व्यचारयत् ॥६६॥ भूपगेहे प्रवेशो हि, ददाति मरणं जने । अयोग्यकार्यकर्तारः, श्रेयसां नैव भाजनम् ॥ ७० ॥ एवं चिन्तयतस्तस्य, रागः कामसमुद्भवः । प्रादुर्भूतस्तदानीं स्व-रागिण्यां राजयोषिति ।। ७१ ॥ यतः-" ध्यायतो विषयान्पुंसः, संगस्तेषूपजायते । संगात्संजायते कामः, कामाक्रोधोऽभिजायते ॥ ७२ ॥ क्रोधाद्भवति संमोहः, संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशावुद्धि
नाशो-बुद्धिनाशात्प्रणश्यति" ॥ ७३ । सोऽथ चेटी समाख्याति, प्रसादो मे महानयम् । भूमिस्थितो नरश्चन्द्र-लेखां स्पष्टुं * कथं चमः १॥ ७४ ॥ मानन्दितोऽथवा सर्व स्पष्टुं शक्नोति मानवः । बुद्धिमन्तो हि लोकेऽस्मिन् , साधयन्ति मनीषितम्
॥ ७५ ॥ चेटी चमाण तं नम्रा,ऽसहायस्य करस्थितः । नश्यत्यर्थश्च नो किञ्चित्-सुसहायस्य दुर्लभम् ॥ ७६ ॥ साधयिध्यामि तत्सर्व, चिन्ता कार्या नवै त्वया । इत्युक्त्वा सा निवृत्त्य स्वां, देवीं सर्व तदब्रवीत् ।। ७७ ॥ तस्याभिगमनोपायं, विचिन्त्य चेटिका स्वयम् । कौमुदीवासरे देवी, सरुगित्थमकन्पयत् ॥ ७८ ।। उद्यानं प्रस्थिते भूपे, पौरलोकसमन्विते । चेटी देव्या विनोदाय, ललिताङ्गं समानयत् ।। ७६ ॥ तत्राशङ्कितचेताः स-सहदेव्या विनोदभाक् । तस्थिवान् विषयाऽऽसक्तो-विविधाऽऽलापतत्परः ॥८०|| गङ्गाया वालुका वार्दु-र्जलमानं महागिरेः। मतिमन्तो हि जानन्ति, महिलाया मनस्तु नो॥८१॥ इतश्चान्तःपुरस्थाभि-वृद्धाभिर्विनिवेदितम् । वृत्तान्तमिदमीशाय, पृथिव्याः पृथुबुद्धिमिः ।।८२॥ अपटुं महिषीं ज्ञात्वा, भूपतिः स्वजनान्वितः । सयः सोन्तःपुरं प्रागाव, भ्रान्तः स बलवाहनः ।। ८३॥ भूपागमनमालोक्य, कमारो भय
॥ ५८
For Private And Personale Only