________________
Acharya Sh Kasagarson Gyarmat
एकादशः
सग।
भीमसेनचरित्रे।
अथाऽन्यदाऽऽगमत्तत्र, सशिष्यो धर्मबोधकः मरिराजः सतां सेव्यः, सुखदुःखसमक्रियः ।।२।। स्तुति निन्दा समां ज्ञात्वा, वर्तमानो निजे पथि । विचरन्विविधान्देशान् , जनानां बोधिमादिशन् ॥३॥दाचिण्यादिगुणानाच, पाथोधिः समतानिधिः । नवकल्पविहारी च, निरीचितधरातलः|४|| जातिरूपकुलोपेतो-नासाग्रन्यस्तलोचनः। क्रोधादिविद्विषां जेता, निहन्ता मन्मथापदाम् ॥५॥ ज्ञानदर्शनचारित्र-रत्नानि पालयन्सदा । द्विरेफवच्चनिर्दोषां, भिचांकुर्वनिरीहकः ॥ ६॥ सूत्रोक्ताऽऽचारमार्गेण, शरीरेन्द्रियकर्षकः । ज्ञातसिद्धान्ततत्त्वार्थो-वाचनोच्चारणे पटुः ॥ ७॥ सोपयोगमनोवृत्तिः, शुभाचारपरायणः । साधुशीलसुसंपत्ते-र्धारको गुप्तिमान् सदा ।। ८ । संयमं सप्तदशेधा, मुनिधर्म च पालयन् । दर्शधा च तपःसिद्धो-निजवृसौ रतः सदा ॥९॥ देशनाऽमृतधाराभि-वैराग्यं जनयन् हृदि । भव्यानां चिन्तितानां च, कम्पपादपदर्शनः ॥१०॥ यथासुखं क्रमेणैव, विहरन् पूर्णभाग्यवान् । स्वतेजसोष्णरश्मेश्व, कान्ति निर्भत्सेयन्सुधीः ॥ ११॥ दशभिः कुलकम् ॥ ॥ वनपालाऽऽज्ञया तत्र, कुसुमश्रीतिनामके । उद्याने स स्थितिं चक्रे, शिष्यवृन्दसमन्वितः॥ १२ ॥ प्रासुकानि स्वयोग्यानि, वस्तूनि जगृहे मुनिः। याचित्वा वनवासिभ्यो-निराबाधमनोरथः ॥ १३ ॥ अन्येऽपि मुनयस्तत्र, ज्ञानध्यानपरायणाः। क्षमैकसाधनासक्ता-मोचमार्गमुपासते ॥ १४ ॥ वैयावृत्त्यं प्रकुर्वन्ति, केचिन्मुक्तिमभीप्सवः । तपोभिर्दुष्करैरन्ये, चिच्छिदुः
(१) पञ्चाश्रवपरीहारः, कषायेन्द्रियनिग्रहः । त्रिदण्डविरतिः सप्त-दशधा संयमोभवेत् ॥ १ ॥
(२) चमा च मार्दवं मुक्ति-रार्जवं संयमस्तपः । पाकिञ्चन्यं सत्यशौचं, ब्रोति दशधा वृषः ॥ २॥ तथा च मनुः-धृतिः क्षमादमोऽस्तेयं, शौचमिन्द्रियनिग्रहः। धीविद्यासत्यमक्रोधो-दशकं धर्मलक्षणम् ।।३।। (३) द्वादशधातपोभिः
॥५६॥
For Private And Personale Only