________________
दशमः सर्गः।
भीमसेनचरित्रे।
सर्वत्र प्रसृता वार्ता, भीमसेनाऽऽगमस्य च ॥ १६ ॥ आश्चर्यकारककथा कमलाऽकलका विद्याऽनवद्यजनमानसवासिता च । कस्तूरिकापरिमलो विमलः कदाचि-त्तिष्ठेच्चतुष्टयमिदं भुवि गोपितं नो ॥१७०॥ शुभ मुहूर्त समवेक्ष्य भूपो-जगाम सद्यः स्वजनैः समेतः । स्वराजधानी चतुरङ्गसेना-विराजितो राजितबन्धुवर्गः ॥ १७१ ॥ विविधाऽऽतोद्यसंनादै-देहिनश्चतुरिन्द्रियाः । सहसा जज्ञिरे तत्र, मिथोवा पराङ्मुखाः ।। १७२ ।। गायन्ति सधवा नार्यो, मङ्गलानि पदे पदे । स्तुवन्ति बन्दिवृन्दानि, नृत्यन्ति वारयोषितः ॥ १७३ ॥ प्रतिस्थानं स्थिता विप्रा-आशीर्वादं ददुर्मुदा । राजमार्गाऽश्रितं भूपं, ददृशुः पौरयोषितः ॥ १७४ ॥ याचकेम्यो धन प्रादा-न्मेषधारायितं धनम् । दारियं नैव कस्यापि, तदासी
गरेऽखिले ॥ १७५ ॥ राजमन्दिरमासाद्य, ततोऽनल्पमुदाऽन्वितः। भीमसेनः समारोह-सिहासनमनुत्तमम् ॥ १७६ ।। सामन्ताः सहसाऽऽगत्य, प्रणेमुीमभूपतिम् । क्षमयामासुरात्मीया-नपराधान् पुराकृतान् ॥ १७७ ॥ निधानकुश्चिकास्तैश्च, तदानीमर्पिताः समाः। शिरोन्यस्तकरास्ते च, दीनाऽऽस्या जज्ञिरे क्षणात् ॥ १७८ ।। आत्मसात्क्षणतश्चक्रे, राज्यसंस्थाखिला तदा। भीमेनाऽऽज्ञा स्वकीया च, दिगन्तस्थायिनी कृता ॥ १७९ ॥ सुनन्दां च समाहूय, स्वति धनदानतः । सत्कृत्य योजयामास, स्वकीयाऽन्तः पुरे नृपः ॥१८०॥ तिरस्कृत्याऽथ भूभर्चा, रोषेण सुरसुन्दरीम् । बहिनि:सारयामास, द्रुतं तेनिजाऽऽलयात् ॥ १८१॥ कारागृहान्मुमोचाऽऽशु, बन्दीकृतजनान्नृपः । प्रजानां दुःखदारिद्य, लक्ष्यते सर्वथा जनैः ।। १८२ ॥ त्यक्तराज्यश्रियं भूपो-हरिषेणं स्वबान्धवम् । निजाऽन्तिके समारचत् , विनयान्वितचेतसम् ॥ १८३ ॥ स्वदेशं कारयामास, जिनमन्दिरमण्डितम् । गुरुभक्तिरतिं कुर्वन् , ज्ञानोद्योतश्चचक्रिवान् ॥ १८४ ॥
॥५५॥
For PvAnd Persone
ly