________________
Shri Mahavir Jain Aradhana Kendra
श्री भीमसेन
चरित्रे ।
॥ ४७ ॥
03+++60+3+++++
www.kobatirth.org
ख्यातिमान् लोके, धर्मबुद्धिर्विशेषतः ॥ ६३ ॥ इतो जगाम तद्वार्त्ता, प्रतिष्ठानपुरेशितुः । भरिञ्जयनरेशस्य, कालेन श्रवणातिथिम् ॥ ६४ ॥ श्रहो ? मद्भागिनेयः क्व १ क १ प्रतिष्ठानपत्तनम् । राज्यभारं कथं हित्वा परपत्तनमास्थितः ॥ ६५ ॥ श्रुत्वा संबन्धिनां वार्चा, नवीनं जायते मनः । मिथोवार्त्ताविनोदेन, मनस्तेषां हि शाम्यति ॥ ६६ ॥ मातुलः सहसोत्थाय, ससैन्यो मीलनाय सः । आगमत्प्रीतिमात्रिभ्र-त्क्षितिप्रतिष्ठपत्तनम् ॥ ६७ ॥ भीमसेनं निरीच्याऽथ, मनसाऽचिन्तयन्नृपः । पूरा काऽपि मया दृष्टोऽयमिति कृपयाऽन्वितः ॥ ६८ ॥ परस्परं मिलित्वाऽथ, सोऽपृच्छद्विनयाश्चितः । कुशलं वर्त्तते कच्चि - द्भागिनेय ? तवाऽधुना ॥ ६६ ॥ सुखिनस्त्वत्प्रसादेन, वयं वर्त्तामहेऽधुना । भवतोऽनामयं शश्वत् - परन्त्वच्चामि मातुल १ ॥ ७० ॥ कर्ममूलानि दुःखानि तद्धेतून सुखानि च । संपदो विपदश्चैव, जायन्ते कर्मणां वशात् ॥ ७१ ॥ कर्मणा प्राप्यते राज्यं, कर्मणा सिद्धयोऽखिलाः । सत्कर्मणां विधाने त-द्यतितव्यं सदा बुधैः ॥ ७२ ॥ सर्व कालकृतं मन्ये, शुभाशुभसमागमम् । राज्याऽऽदिसंपदो शेयाः, प्रपायामिव पचिणः || ७३ ॥ इत्थं परस्परोदन्तं श्रुत्वा तावतिविह्वलौ । बभूवतुः प्रेमवन्तौ, धृतरोमाञ्चकञ्चुकौ ॥ ७४ ॥ अरिञ्जयेन साकं स, समायातो वणिग्वरः । यद्वेदे भीमसेनः प्राग्, न्यवात्सीद्भृत्यवेशतः ॥ ७५ || सोऽपि भीमं निरीक्ष्येति, निश्चिकाय स्वमानसे । स एवाऽयं यदीयानि, शस्त्राणि सन्ति मेऽन्तिके ॥ ७६ ॥ वेपमानवपुस्तानि लजाधोमुखीभवन् । मुक्ता शस्त्राणि भीमाग्रे, निजागः स न्यवेदयत् ॥ ७७ ॥ भीमसेननराधीश ? येऽपराधाः कृता मया । चन्तव्यास्ते त्वया कृत्वा, करुणां शरणागते ।। ७८ ।। अपराधसहस्राणि, चमन्ते सुधियो नराः । अनार्या लेशमात्रं हि, न सहन्ते जुगुप्सितम् ॥ ७९ ॥ अभीममानसो मीम - आविर्भूतकृपाङ्कुरः । अरिञ्जयं जगादेति, तदाग:
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
*** ***+++
नवमः
सर्गः ।
॥ ४७ ॥