________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૪૦.
"
गुप्तसिद्धान्तसारोऽयं, संरक्ष्यो हृदि युक्तितः । यस्य कस्यापि नो देयः, सत्यश्रद्धां विना कदा ॥ २४६ ॥ नो वाच्यो नास्तिकस्याग्रे, प्राणान्तेऽपि प्रयत्नतः । गुल्लाद् गुह्यतरं तत्त्वं प्रधानं सर्वशक्तिषु ॥२४७ सर्वनयैर्गभीरार्था, गुरोर्गीता शुभङ्करा । धृतिबुद्धिसुसम्पत्ति- कारिका च सतां मता ॥ २४८ ॥ प्राप्तव्यं यच्च तत्सर्वं भक्तः प्राप्नोति पाठतः । सद्गुरुमन्त्रसंजापान्मङ्गलानि पदे पदे ॥ २४९ ॥ सर्वगीतासु प्राधान्यमस्या मह्यां प्रवर्त्तते । श्रीच्या वाच्या सदा प्रीत्या, सर्वसिद्धिप्रदायिका | २५० | कर्मयोगी महाज्ञानी, भवेद् गीताप्रपाठकः । सद्गुरोराशिषा नित्यं प्राप्यन्ते सर्वसम्पदः ॥ २५२ ॥ ॐ ह्री श्री सद्गुरुर्ब्रह्म, श्रीही कीर्तिकृपालयः । गुणी सदैव लोकेषु, रुचिदं यद्वचः सदा ॥ २५२॥ बुधव्रजानां सकलार्थदः स्याद्वितोपदेष्टा निखिलप्रजानाम् ।
"
"
Acharya Shri Kailassagarsuri Gyanmandir
सारं सुशास्त्रस्य ददात्यभीक्ष्णं, गम्पो गुरूणां गुरुरस्ति लोके ॥ २५३ ॥ रति सदेह सुगुरौ करोति, सूच्यग्रबुद्धिर्यतिभिः प्रशस्यः । रिपोर्जयी ब्रह्ममयप्रवृत्तिताsस्ति लोके गुरुवर्य एषः ॥ २५४ ॥
गुरुगीता समाप्ता,
For Private And Personal Use Only