________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०७
नव्यं नव्यं स्वनुभवमयं शिक्षण सद्गुरुस्त्वं, यघद् दुःख शिरसि पतति ज्ञानहेतुर्गुरुस्त्वम् । सर्वीयस्त्वं निगमजनका स्वान्तरो रामसीता, कालस्य त्वं कलयनपरो ज्ञेयभावस्यगीता ॥२३८।। देहे वासः परिमितगुणा यद्यपि त्वं तथा नो, सत्तातस्त्वं प्रभुविभुकलोऽनन्तशक्तिस्वरूपः । किं किं भाषे गुरुगुणगणान् पार्यते नैव पारं, व्यक्ताव्यक्तो नवनिधिमयः सद्गुरुस्त्वं कृपालु॥२३९।।
गानं च तानं च सदैव गाता, स्रष्टा च सृष्टिश्च सदैव सृज्यम् । पुत्रः कलत्रं च सदैव बन्धु, हृद्यो गुरुस्त्वं मम धर्मसिन्धुः ॥ २४० ॥ आकर्षणं तद् गुरुरात्मनस्त्वमाकृष्यतत्त्वं स्वयमेव तत्त्वम् । सर्वप्रियस्त्वं मम सद्गुरुस्त्वमद्वैतमन्यच्च सदैव सत्वम् ॥ २४१ ॥ सेवा च सेव्यश्च सदैव नेता, कार्य क्रिया त्वं च सदैव वैद्यः सङ्घश्चतुर्धा जनता महांस्त्वं,
त्रैलोक्यशक्तिस्सुखदो गुरुस्त्वम् ॥२४२॥ पराभाषोत्थसङ्कल्प-शब्दाद्यस्त्वं गुरुः सदा । पश्यन्त्यात्मस्वरूपं ते, पश्यन्ति ज्ञानिनः स्वयम् ॥ अत्यद्भुतं महिम्नस्ते, पारं प्राप्नोति कोऽपि नो । यावन्मानं स्वरूपं ते, ज्ञातं तावन्न कथ्यते ॥२४४॥ जगदुद्धारकाः सन्तस्त्वत्स्वरूपं हि वस्तुतः। सत्तयैको विशेषेण, नानात्वं व्यक्तिमात्रतः ॥२४॥
For Private And Personal Use Only