________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૪૦૬
अन्तर्यामी मम शुभगुरुः सर्वदोषप्रहन्ता, स्वात्मारामी शिवसुखकरः सर्वसाहाय्यकर्त्ता कर्त्ता हर्त्ता नयनमनसोः पूर्णशान्तिप्रदाता, 'वन्देऽहं त्वामनुभवगतं सद्गुरुं पूर्ण भक्त्या | २३ गम्यागम्यं सकलसुखदं सर्वदा साक्षिरूपं, ज्ञेयाधारं सकल शिवदं पूर्णतेजःस्वरूपम् । ज्ञानाधारं यतिततिपतिं पूजितं सर्वदेवे - वन्देऽहं त्वामजम विचलं सद्गुरुं मङ्गलेशम् ॥ २३२ ॥ मनसोऽगोचर निर्व्यय ! कृतसुरनरपतिसेव ! | त्वां वन्देऽहं भावतः सर्वशक्तिमय ! देव ! || २३३ || षट्कारकचक्रस्याधार ! निर्जितभवहेतुमहामार ! | जय शङ्कर! सागरगम्भीर। जय जय श्रीधृतिमत्सुधीर । गुरोः सर्वचेष्टा गुरुज्ञानगम्या, विधेया न शङ्का विकल्पाः कदापि ! अनन्तात्मवृत्त्या गुरुस्तु त्रिकाले, सदाऽस्ति व्ययोत्पादनित्यस्वरूपः ॥ २३५ ॥ स्वधर्मा अनन्ता गुरौ त्रिस्वरूपाः, सदा सर्वभावेषु धर्मा अनन्ताः ।
अनन्तास्तु भावाः सदा त्वत्स्वरूपा, अतः सर्वरूपी त्वमेव त्वमेव ॥ २३६ ॥
सदा सर्वधर्मस्वरूपी गुरुस्त्वं । सदा सर्व शान्तिस्वरूपी गुरुस्त्वम्, चिदानन्दरूपेण वा यत्र तत्र, प्रभुत्वं गुरुस्त्वं महामङ्गलस्त्वम् || २३७ ॥
For Private And Personal Use Only