________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૪૦૫
Acharya Shri Kailassagarsuri Gyanmandir
महांस्त्वं गुरुः सर्वशक्तिप्रदाता, शरण्यः शरण्यः सदा त्वं सदा त्वम् ||२२४|| रविश्वन्द्रतेजस्त्वमेवाब्धिरूपो, महीवृक्षनद्यादिरूपस्त्वमेव । सदा सर्वरूपो महाशक्तिरूपः, परब्रह्मरूपस्त्वमेवाहमेव ॥ २२५ ॥ पितामातृदेवो महातीर्थराजो, महामित्ररूपः सदाप्रेमरूपः । प्रियं यच्च यद्द्दश्यनिर्दृश्यरूपमखण्डात्मरूपस्त्वमेव त्वमेव || २२६ ॥ सदा सर्वकार्येषु साक्षी त्वमेव, सदा सर्वकार्यावलोकी त्वमेव । सदा सर्वकार्येषु योक्ता त्वमेव, अलक्ष्यश्च लक्ष्यस्सदैव त्वमेव || २२७ ॥ सदा सर्ववेदस्वरूपस्त्वमेव, पुराणोपलक्ष्यस्वरूपस्त्वमेव । सदा सर्वसिद्धान्तरूपस्त्वमेव, अनाकार साकाररूपो गुरुत्वम् ॥ १२८ ॥ महामन्त्रयन्त्रादिरूपस्सदा त्वं, महासत्वतन्त्रादिरूपस्सदा त्वम् । महापुष्करावर्त्तमेघस्सदा त्वं,
महत्सु प्रभुत्वं महासूक्ष्मरूपः ।। २२९ ॥ कदाप्यग्निना नैव दायो गुरुत्वमलाग्यो ह्यभेद्यः प्रभुः शङ्करस्त्वम् । aatगोचरो नैव योगी सदा त्वं, महारोगहन्ता सदा सत्यशास्ता ॥ २३० ॥
For Private And Personal Use Only