________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकस्यैव गुरोः श्रद्धा, सर्वकर्मापहारिणी । कुविकल्पान् परित्यज्य, सत्यमेव गुरुं भज ॥२१॥ नाभितः सद्गुरोराशीनिःसृता फलति ध्रुवम् । अतः शिष्यमहाप्रीत्या, गुरुः सेव्यो मुहुर्मुहुः ॥२१८॥ पूर्णानन्द स्वयं ज्ञात्वा, मत्वा कर्म समाचार । पूर्णप्रीत्या महाशक्त्या, निष्कर्मा भवसि प्रभुः ॥२१९॥ गुरो ! त्वं प्राणेशः शिवमुखमयः सत्यसुखदः, त्वमेवाहं पूर्णों विभुगतिसरूपो जयकरः। परब्रह्मैव त्वं जगति जयदः पूर्णवरदः, सदा स्वात्मैक्येन स्मृतिनतिगतिस्त्वं मम गुरुः ॥२२०॥
विधा योगरूपस्त्वमेव त्वमेव, त्रिधा योगकार्यस्वरूपस्त्वमेव । गुरो त्वां विना नास्ति किञ्चित् पृथिव्यां, सदा ज्यातिषां भासकोऽसि त्वमेव ॥२२॥ अनेकान्तरूपस्त्वमेव प्रवाच्यस्त्वनन्तस्वरूपस्त्वमेव त्वमेव । तिरोभाव चाविःस्वरूपस्त्वमेव, स्वनन्तात्मरूपस्त्वमेव त्वमेव ॥ २२२ ॥ भविष्यन्ति भूताश्च ये ये भवन्ति, सदा क्षेत्रभेदादिरूपेण धर्माः। गुरोः सत्यरूपेण तेषु त्वमेव, चमत्काररूपेण वा सर्वदाऽसि ॥२२३ ॥ त्वमेवाहमेवाहमेव त्वमेव, सदा तत्वमस्यादिरूपेण पूर्णः ।
For Private And Personal Use Only