________________
Shri Mahavir Jain Aradhana Kendra
"
www.kobatirth.org
गुरुमन्त्रः सदा जाप्यः, सद्गुर्वाम्नायपूर्वकम् । सर्वकार्याणि सिद्ध्यन्ति, पूर्णश्रद्धासुयोगतः ॥ २०३ ॥ राज्यं देयं शिरो देयं देयं सर्व धनादिकम् | नैव देयगुरोर्मन्त्रो, नास्तिकेभ्यः कदाचन || २०७|| गुरुमन्त्रो महाभक्त्या, ग्राह्यश्च विधिवजनैः यादृक्तादृग्मनुष्याग्रे वाच्यो नैव कदापि सः ॥ २०८ ॥ दर्शन प्रत्यहं कार्य, सद्गुरोः पूर्णभावतः । प्रत्यहं सद्गुरोरग्रे वाच्यं सर्व निजात्मनः || २०९ ।। गुरुबुद्धिः ।
स्वबुद्ध्या न कदा कार्याः, शिष्यैः शङ्काः स्वसद्गुरोः । मनोवचनकायानां विरोधिनीप्रवृत्तिषु ॥ २२० ॥
"
"
૪૩
Acharya Shri Kailassagarsuri Gyanmandir
गुरोः कृपां विना शिष्यरात्मज्ञानं विना तथा । परस्परविरोधिन्यो, ज्ञायन्ते हि प्रवृत्तयः ॥ २१२ ॥ किन्तु नैव विरोधिन्यः, सद्गुरूणां प्रवृत्तयः । श्रीसद्गुरोः कृपां प्राप्य, विज्ञायन्ते सुशिष्यकैः ॥ २१२ ॥ सद्गुरु महिमा. रङ्क करोति देवेन्द्र, मूढं च स्वर्गुरोः समम् । आत्मानं च परात्मानं, गुरुस्तस्मै नमोनमः ॥२९३॥ यस्य कृपाकटाक्षेण विकासन्ते सुशक्तयः । परोपकारिमुख्यस्य, गुरोस्तस्मै नमोनमः ॥ २१४ ॥ गुरुरेव पिता माता, जीवन्देवो वपुः स्थितः । सद्गुरुं तं महाभक्त्या प्रत्यहं समुपास्महे ।। २१६ ।। एकस्मिन्सद्गुरौ श्रद्धा, धार्या विश्वेशभावतः । तस्यैकस्य कृताज्ञा या, कार्या प्राणात्ययेऽपि सा ॥ २१६ ॥
For Private And Personal Use Only