________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०२
सद्गुरुभावना.. ॐ होरूपं शिवसुखमयं दर्शनज्ञानरूपं, सत्याऽऽधारं परमहितद्वं पूर्णशान्तिस्वरूपम् । विश्वाधारं सहजमखिलं निर्मल धर्ममूर्ति, पूर्णप्रीत्या सकलगुणिनं सद्गुरुं तं नमामि ॥१९६॥ परमशान्तिविधायकचेतनं, तिमिरन्दविनाशक
सन्मणिम् । परमशमविवेचकतत्त्वद,प्रतिदिन प्रणमामि जगद्गुरुम्।। सदा ह्यनन्तं परमात्मरूप, विश्वत्रयाधारमनन्तधर्मम्। स्याद्वादरूपं शिवशान्तिकार,वन्दे सदाऽहं गुरुदेवपादम्।। रत्नत्रयाधारमखण्डरूपं, पूर्णप्रकाशं गतरागदोषम् । साम्यप्रदं सच्चिदनन्तमूर्ति, वन्दे सदाऽहं गुरुदेवपादम्। धन्योऽहं कृतपुण्योऽहं, विश्ववन्धोऽहमीश्वरः । शुद्धात्मधर्मद्रष्टाऽहं, जातः सद्गुरुभावतः ॥ २००॥ गुरुशरणं भयहरणं संसाराब्धौ तरिः प्रशमकरणम् । जगति हि सद्गुरुदेवो हृदयचक्षुःप्रकाशको जयति ॥ कृतगुरुशरणो भव्यो जन्मजरामृत्युनाशको भवति। भूत्वा निर्भययोगी विश्वोद्धारकसत्पदं वहति॥२०२।।. दीयते यन देवश्च, देवीभियन दीयते । तद्दातुं सद्गुरुस्तुष्टः, समर्थोऽस्ति न संशयः ॥२०३॥ सुगुप्तं ब्रह्मविद्यास्त्रं, गोतायामत्र निश्चितम् । प्राप्यते हि गुरोभक्तः, सर्वविद्यास्त्रजिन्महत् ॥२०४॥ दत्तो हि गुरुणा मन्त्रः, सर्वशक्तिप्रदायकः।। प्रत्यहं विधिवजाप्यः, सर्वेष्टार्थप्रदो ध्रुवम् ॥ २०५॥
For Private And Personal Use Only