________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सद्गुर्वाज्ञा स्वधमौऽस्ति, कर्तव्यो विधिना सदा। आज्ञाभिन्नोऽन्यधर्मस्तु, स्वोन्नतिशर्मनाशंकः ॥१८॥ प्रत्यक्षे सद्गुरौ ज्ञाते, देवे जाते परोक्षके। गुर्वाज्ञायां च ता मान्ति, देवाज्ञा व्यवहारतः ॥१८६॥ फलादिविधिवन्मुक्त्वा, नत्वा स्तुत्वा च भक्तितः। प्रीत्योपविश्य विधिवच्छ्रोतव्या धर्मदेशना ॥ १८७ ।।
सद्गुरुकृपा. प्रशस्योन्नतयः सर्वाः, सद्गुर्वादिष्टयुक्तिभिः । कार्या भक्तैः प्रयत्नश्च, गुप्तहाद प्रकीर्तितम् ॥१८८॥ गुर्वाज्ञया प्रवृत्तौ च मृत्युः श्रेयस्करो मतः । गुर्वाज्ञाया निषेधाच्च, जीवनं मृत्युतोऽशुभम्॥१८९॥ विहाय चित्तस्वाच्छन्द्य, देहाध्यासं विहाय च । सर्वशक्तिप्रकाशाथै, सद्गुरोः शरणं भज ॥१९०॥ कदाऽपि निर्बलो मा भूः, सद्गुरुप्राप्त्यनन्तरम् । कुरुष्वार्जुनवत्कर्म, स्वाधिकारे विवेकतः ॥ १९१ ॥ दुःखं सुखं समं कृत्वा, मा मुहोऽयोग्यकर्मसु । योग्यकर्त्तव्यतो भक्त ! प्रान्ते मुक्तो भविष्यसि॥१९२॥ सद्गुर्वाज्ञा सदा सत्या, नैवाऽसत्येति भावय । क्षेत्रकालादितो योध्या, निश्चयव्यवहारतः ॥१९३॥ आज्ञायां कुरु मा शङ्कां; श्रद्धातस्त्वं यतस्व भो। सर्वदुःखानि नश्यन्ति, सद्गुरोः कृपया ध्रुवम्॥१९४॥ चिन्त्यते यच्च मनसा, यस वाचा प्रकाश्यते । देहेन क्रियते यद्यत , तत्तत्सेवा हिं सद्गुरोः॥१९॥
For Private And Personal Use Only