________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૪૦૦
सर्वकर्त्तव्यकार्येषु, निर्लेप सत्यशक्तिदम् ।
७
'क्ली झौ सद्गुरुं स्तौमि, निष्कलं सकलं शुभम् ॥ १७४॥ चमत्कारा गुरोः पादे सर्वत्र सर्वदर्शने । इत्येवं ज्ञायते सम्यक्, सद्गुरोरुपदेशतः ॥ १७५ ॥ सर्वदेवगुरुश्चित्ते, मन्त्रबीजस्वरूपकः । स्वर्गसिद्धिर्भवेत्तस्य कथ्यते ज्ञानयोगिभिः ॥ १७६ ॥ महाधन्यो महाराजस्तारका महामणिः । दृष्टं सर्व गुरौटे, स्मृतं सर्वं गुरौ स्मृते ॥ १७७ ॥ आत्मज्ञानं कृपां कृत्वा, दत्तं सर्वप्रकाशकम् । परोपकारिणां मुख्यं वन्देऽहं सद्गुरुं सदा । १७८ ।। कृपाम्भोधिस्सदाशुद्धो, निर्दोष: पूर्णतां गतः पूर्णरत्नत्रयीयुक्तः प्रीत्या पूज्यो गुरुर्महान् ।। १७९ ।। अहंत्वं भावनिर्मुक्तस्त्वमहं व्यवहारयुग् । सर्वानन्दधरः श्रीमान्, सद्गुरुर्भ्रान्तिनाशकः ॥ १८० ॥ सर्वकार्याणि सिद्धव्यन्ति, सद्गुरोराशिषा ध्रुवम् । आशीहतुर्गुरोः सेवा, कार्या विश्वासभावतः || १८१ || पूर्णश्रद्धा सदा यस्य, गुरौ तस्यैव मङ्गलम् । जायते सर्वकार्येषु नान्यत्किञ्चिन्न कुत्रचित् ।। १८२ ॥ इन्द्रियायैः कृतं सर्व, गुरोः कृत्वा समर्पणम् । निःसङ्गो जायते भक्तः, कर्मयुक्तोऽपि वाद्यतः ॥ १८३॥
धर्माधर्मफलम् ।
सद्गुर्वाज्ञापितो धर्मः, प्रान्ते सिद्धिसुखप्रदः । अन्यो हितार्थविज्ञातोऽप्यधर्मो दुर्गतिप्रदः ॥ १८४ ॥
For Private And Personal Use Only