________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩૯૯
कातयं नैव कर्त्तव्यं, गुरुसेवासु सर्वथा । प्रीतितः सद्गुरौ भक्तिभुक्तिदा नैव संशयः॥१६॥ नास्तिकानां कुतच, नैव मोयं कदाचन । सद्गुरूध्यानलीनानां, मिथ्याशङ्का विनश्यति ॥१६४॥ सद्गुरूध्यानमग्नानामानन्दाद्वैतसंभवः। स्वानुभवः प्रमाणं तत् ,सत्यं सत्यं वचो ह्यदः॥१६६।।
गुरुमाहात्म्यम् । अधिवत्पूर्णगम्भीरो, भानुवद्विश्वभासकः । क्षमा धरित्रीवत्पूर्णा, चन्द्र वच्छीतलः सदा ॥१६६॥ मेरुरिव सदा धीरो, निर्लेपो व्योमवद्गुरुः । अनौपम्यं गुरौ बोध्यं, वृत्त्यतीतो न वर्ण्यते ॥१६॥ पूर्णप्रीति विना नैव, लभ्यस्तु सद्गुरुः कलौ। लभ्यः कदापि नो देवो, विश्वस्मिन्सद्गुरुं विना ॥१६८॥ गुरुरेव प्रभु यः प्रभुरेव गुरुः सदा। ब्रह्मसत्ताऽविशेषेण, द्वयोरैक्यमभेदतः ॥ १६९ ।। तारको भवपाथोधेर्वारकः सर्वदोषतः । स्मारकः सर्वतत्त्वानां, धारको ज्ञानवारिधेः ।।१७०॥ गायकः सत्यगेयानां, नायकः सर्वदेहिनाम् ।। दायको धर्मदानानां, कोऽपिनास्तिगुरोः समः ॥१७१।। ॐ ही श्री सद्गुरुं नौमि, पूर्णप्रीत्या सनातनम् । सोऽहं सोऽहं त्वमेवाहं, सत्तया व्यापकः सदा ॥१७२॥ ॐ रौ सद्गुरुं नौमि, पूर्णशक्तिप्रदायकम् । सर्वव्याधिहरं तूर्ण, शक्तिरूपं सनातनम् ॥१७३॥
For Private And Personal Use Only