________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
अनन्तं सद्गुरोरूपं, किश्चिद् वृत्त्या तु बोध्यते । स्वानुभूतमहो किश्चिद् , वाण्या वक्तुं न शक्यते ॥१५३ ।। सूत्रं सनातनं बोध्यमनन्तं ब्रह्म सद्गुरुम् । ब्रह्मदृष्टिं विना ज्ञातुं, कोऽपि शक्तो न भूतले । १५३।। ज्ञायते ब्रह्मणा ब्रह्म, सद्गुरुः पूर्णचिद्धनः । ज्ञात्वा वाचो निवर्तन्ते, सानन्दं परमं गुरुम् ।।१५४॥ सर्वज्ञानसमावेशो, यत्र स सद्गुरुमहान् । उन्मनीभावतःप्राप्यो, व्याप्यव्या कयोगिराट् ॥१५५।। सद्गुरुबह्मविद्भक्तो, ब्रह्मरूपो भवेत्स्वयम् । गुरुर्बह्म स्वयं ब्रह्म, वक्तव्यं नावशिष्यते ॥ १५६ ॥ व्यक्तब्रह्मगुरुः साक्षात् , तेनाव्यक्तं प्रकाश्यते। दीपको दोपकात्तच्छिष्यः सद्गुरुणा मतः ॥१५७॥ पूर्णप्रीति समर्यि ! सद्गुरोः शरणं व्रज । गुरुस्त्वां सर्वकर्मभ्यो, मोचयिष्यति मा मुहः ।।१५८। सद्गुर्वाज्ञापरो धर्मो, मत्वा कर्म समाचर । यादशी तादृशी मान्या, गुर्वाज्ञा ते गतिः शुभा॥१५॥
गुरुध्यानम्. गुर्वात्मज्योतिषो ध्यानान्मोहो नश्यति तत्क्षणे । आविर्भवति शुद्धात्मा, तत्र किश्चिन्न संशयः ॥३०॥ सदेहसद्गुरुध्यानात्, पूर्णश्रद्धानयोगतः । नश्यन्ति सर्वपापानि, भक्तानां नात्र संशयः ॥१६॥ सदेहसद्गुरुध्यान, श्रद्धागम्यं विशेषतः । प्रत्यक्षे च परोक्षे तत्, सद्गुरुः सर्वशक्तिदः ॥१३॥
For Private And Personal Use Only