________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩૦૭ गुरुसेवोद्भवं ज्ञानमप्रतिपातितां व्रजेत् । सेवाफलं न तन्नश्येत्, कदापि दैवयोगतः ॥ १४१ ।। शोकः कदापि नो कार्यों, भेतव्यं नव भीतितः। शुद्धब्रह्मस्वरूपेण, गुरुः सर्वत्र रक्षकः ॥ १४२॥ दीनता नैव कर्तव्या, सर्वकर्तव्यकर्मसु । स्मृत्वा शुद्धगुरोरूपं, वर्तितव्यं स्वभावतः ॥ १४३ ॥ चिदानन्दं गुरोरूपं, स्वात्मनश्च तथैव तद् । शुद्धब्रह्मगुरोरेवं, रूपं शुद्धस्वभावतः ॥ १४४ ॥ वर्तमान स्त्रिकाले स, गुरुः कालात्परः सदा । वस्त्रवद्देहसंबन्धो, गुर्वात्मा देहतः पृथक् ॥ १४५ ॥
गुरुब्रह्म. देहोत्सर्गान नश्येत्स, गुर्वात्मा तु सदा ध्रवः । शाश्वतः सद्गुरूबाध्यः, सर्वसाक्षी सनातनः॥१४६॥ देहादिसर्वपर्याया, भवन्ति कत्र्तकर्मतः । कर्मदेहादितो भिन्नं, शुद्धरूपं गुरोः सदा ॥१४॥ छिनत्ति संशयान्सर्वान् , देहाधिष्ठितसद्गुरुः । छिनत्ति संशयान्सर्वान् , देह भिन्नोऽपि सद्गुरुः॥१४८॥ छिनत्ति संशयान्सर्वान् , प्रत्यक्षः सद्गुरुर्महान् । परोक्षेऽपि गुरुवा॑नाच्छिनत्ति सर्वसंशयान् ॥१४९॥ ममैव सद्गुरोरूपं, शुद्धनिश्चयतः स्वयम् । अहंत्वंभावनाशे तु, सदैक्यं सत्तया खलु ॥१५०॥ अहंत्वभेदनिभिन्नः, पूर्णशुद्धात्मसद्गुरुः । स्वेनानुभूयते स्वस्मिन् , नैव वाचा प्रकथ्यते ॥१५१।।
For Private And Personal Use Only