________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ नामरूपात्मिकां वृत्ति, विना सर्वप्रवृत्तिषु । गुर्वाज्ञया प्रत्तःसन् , निबन्धः शिष्यराट् सदा ॥१३०॥ पूर्णप्रीत्या गुरोर्भक्तिः, सर्वशक्तिप्रदायिका । प्राप्या भक्तैर्महापुण्यैः, पूर्णानन्दप्रदायिनी ॥ १३१ ॥ महाभक्त्या मया प्राप्तः, सद्गुरुधर्मबोधकः। इत्येवं हृदये धार्या, भावना शर्मकारिका ॥ १३२ ॥ मानेऽमाने सुखे दुःखे, गृहेऽरण्ये च सद्गुरुः । स्मर्तव्यः पूर्णसत्प्रीत्या, मन साम्यं निधाय सः॥१३३।। दर्शनज्ञानचारित्रैः, स्वात्मारामो जगद्गुरुः । आविर्भवति सद्व्यक्त्या,स्वात्मा वेद्यो य आत्मना १३४!
गुरुभक्तः । गुरौभक्तिः सदा येषां, देवास्ते देहवासिनः। गुरोभक्ता महासवा, भवन्ति सत्यवेदिनः ।। १३६॥ शापादीनां भवेन्नाशः, सद् गुरोः सत्यभक्तितः। वादे रणे विपत्तौ च, स्युर्दैवा रक्षकाः सदा ॥१३६॥ कामादीनां विजेता स्यानिर्भयः सर्वथा भवेत् । सत्यसेवाकरो भक्तः,सत्यचिन्तामणीयते ॥१३७ ॥ सर्वधर्मस्वरूपेण, विश्वव्यापकसद्गुरुः । अतो व्यापकसद्भक्त्या, सेव्यो ध्येयो विवेकतः॥१३८॥ सद्गुरुं शरणीकृत्य, त्यक्त्वा च सर्वसंशयान् । स्वाधिकारेण यत्कर्म, तत्कुरु शिष्य ! यत्नतः ॥१३९॥ धर्मस्यास्तित्वरक्षादि-कार्येषु देशकालतः। सद्गुर्वाज्ञा भवेद्या या, सा सासेव्या प्रयत्नतः।१४॥
For Private And Personal Use Only