________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પ
Acharya Shri Kailassagarsuri Gyanmandir
,
गुर्वाज्ञापालकः कोऽपि, स्वाधिकारेण शक्तितः । ज्ञानयोगी भवेत्सूर्ण, प्रवृत्तः सर्वकर्मसु ॥ ११८ ॥ सर्वदा पूर्ण निर्लेपः, सर्वस्वार्पणकारकः । आत्मज्ञसद्गुरोस्तुल्यं, नैव किञ्चिज्जगत्त्रये ॥ ११९ ॥ गुर्वाज्ञाराधनातुल्यं, पुण्यं नैव जगत्त्रये । गुर्वाज्ञाखण्डनातुल, नैव पापं जगत्त्रये ॥ १२० ॥ गुर्वाज्ञापूर्णविश्वासी, स्तुत्यो भक्तो जगत्त्रये । महत्तायाः पदं बोध्यं सद्गुर्वाज्ञा जगत्त्रये ॥ १२१ ॥ पूर्णप्रीतिर्गुरौ यस्य तस्य नीति सन्मतिः । गुरौ भावं विना नैव वन्दनाद्याः फलप्रदाः ॥ १२२ ॥ गुर्वाज्ञामन्तरा प्राप्ति, नैंव स्यात्परमात्मनः । कदापि कस्नो मुक्ति', सद्गुरुमन्तरा मता ।। १२३ ।। सद्गुरोः प्रेमवृद्धव्यर्थ, वर्तितव्यं विवेकतः । स्वाच्छन्वं नैव कर्त्तव्यं, त्रियोगेमहतः कचित् ॥ १२४॥ यादृशी तादृशी पाल्या, गुर्वाज्ञा सत्यभावतः । शङ्काखेदौ न कर्तव्यौ, गुर्वादिष्टेषु कर्मसु ॥ १२५ ॥ गुर्वादिष्टे कृते कार्ये, मुक्तिरेव न संशयः । स्वाधिकारः सदा तेsस्तु, गुर्वाज्ञादिष्टकर्मसु ॥ १२३ ॥ नैव प्रत्युपकारः स्यादात्मोद्धारक १द्गुरोः । येन केन प्रकारेण, सेवनीयः सदा गुरुः ॥ १२७ ॥ बुद्धेः परं गुरोर्वृत, कल्पनातीतसद्गुरुः । पारं प्राप्नोति न कोऽपि, श्रीसद्गुरोः कदाचन ॥ १२८|| सद्गुरोः स्वापणं कृत्वा, पात्कार्यां न नीचता । त्याज्याऽहं ममतावुद्धिर्नामरूपात्मत्रस्तुषु ॥ १२९ ॥
For Private And Personal Use Only