________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
दानशीलतपोभावैः सामर्थ्ययोगवर्धनम् : देवसद्गुरुपूजाऽऽद्यै, राऽऽत्मवीर्यप्रकाशते. ॥६७९॥ योगिनांकेवलज्ञानं, सामर्थ्ययोगतोभवेत् : सर्वकर्मक्षयोमोक्षो, जायते च सयोगिनाम् ॥६८०॥ आत्माऽसंख्यप्रदेशाना, मरूपिणांनखण्डनम्: छेदनभेदननैव, पृथक्त्वं न स्वभावतः ॥ ६८१ ॥ आत्माऽसंख्यप्रदेशास्ते: कर्मसम्बन्धयोगतः देहंप्रमाणसंकोचं, विकाशं चधरन्तिये ॥६८२॥ कर्मसम्बन्धमुक्तास्ते, निर्मलाएकरूपिणः न संकोचंविकासं ते, प्राप्नुवन्ति सदा स्थिराः ॥६८३॥ प्रतिप्रदेशमानन्त्यं, ज्ञानादीनामनादितः अनन्तागुणपर्याया, आत्मनि सन्ति सर्वदा ॥६८४॥ मनोवाकायगुप्त्यायत् , सामर्थ्य माऽऽत्मनः स्फुटम् : व्याप्रियते हि मुक्त्यर्थ, सामर्थ्ययोग इष्यते ॥६८५।। सन्तियोगा असंख्याता, बाह्यान्तरप्रभेदतः एकैकयोगमाश्रित्य, अनन्ता मोक्षगाजनाः ॥६८६॥ उपशमादिभावेन, स्वाऽऽत्मन आन्तराखल शुभशुद्धपरीणाम-योगा भवन्ति धर्मिणाम् : ॥१८७॥ आत्मनः पूर्णशर्मार्थ, मसंख्ययोगहेतुता: ज्ञात्वाऽऽत्माऽऽनन्दलाभाथै, निश्चयंकुरुभावतः ॥६८८॥ मुक्त्वाऽऽत्मानं त्रिलोकस्य, पदाथैन सुखं भवेत्: सुखाम्भोधिस्वयं ज्ञात्वा, स्वाऽऽत्मनि त्वं स्थिरो भवा६८९ भ्रामं भ्रामं भृशं भ्रान्त्वा, जगत्सर्व मनेकशः सुखार्थी न सुखं प्राप्त, आत्मनि शर्म शोधय ॥६९०॥
For Private And Personal Use Only