________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७ षट्चक्रेषुमनास्थैर्य, कृत्वाब्रह्मविचारणा; कर्तव्यास्वोपयोगेन, सर्वशक्त्युद्भवस्ततः ॥६६७॥ ध्यानसमाधियोगाद्याः सन्ति मोक्षस्यहेतवः मोक्षसाधनतोभिन्नं, शुद्धाऽऽत्मानं विचारय ॥६६८॥ चित्तस्यमोहवृत्तीनां, निरोधोयोगउच्यते : योगस्यलक्षणंह्येतत् , क्षायिकभावयौगिकम् ॥६६९॥ अप्रशस्यकषायाणां, निरोधोयोगउच्यते सम्यग्दृष्टिगुणस्थान, माऽऽरभ्यवर्तते हृदि ॥६७०॥ शस्यकषाययुक्तानां, सेवाभत्त्याऽऽदिकर्मणाम् व्यापारःशुभयोगोऽस्ति; जायतेमुक्तिकाइक्षिणाम् ॥६७१॥ सर्वज्ञधर्मवाञ्छात, इच्छायोगःप्रवर्तते; सद्देवगुरुसेवार्थ, तीवेच्छा हृदिजायते ॥६७२॥ सर्वकर्मविमोक्षार्थ, मिच्छाऽपूर्वा हृदिस्फुटा; इच्छायोगोऽस्तिचाद्यासो, मार्गानुसारिणांचयः ॥६७३॥ सर्वज्ञोक्तेमहाश्रद्धा, शास्त्रयोगःसउच्यते; धर्मशास्त्रंसमाश्रित्य, सम्यग्दृष्टिःप्रवर्त्तते ॥६७४॥ सर्वज्ञवीरदेवोक्त-, धर्मशास्त्रावलम्बनम् : स्याद्वाददृष्टिसापेक्ष-, शास्त्रयोगःप्रवर्तते ॥६७५॥ शास्त्रयोगबलेनैव, सामर्थ्ययोगआत्मनि; उद्भवेद्धर्मकार्याणां, व्यापारेण व्रतैषिणाम् ॥६७६॥ देशविरतिमाऽऽरभ्य, सामर्थ्ययोगवर्तनम् : क्षीणमोहगुणस्थानं, यावदस्तिसयोगिनाम् ॥६७७॥ श्रावकाणाचसाधूनां, व्रतादिधारणशुभम् , षडाऽऽवश्यककृत्यायैः सामर्थ्य योग इष्टदः ॥६७८॥
For Private And Personal Use Only