________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मनः सद्गुणाः सर्वे, स्वाऽऽत्मरूपा अनादितः सत्तातो विद्यमानास्ते, भवन्ति व्यक्तरूपिणः ॥५३॥ आत्मशुद्धस्वभावेन, मोक्षोऽस्तीति विनिश्चितम् । रागद्वेषविभावेन, संसारोऽस्तोति निश्चितम् ॥५३६॥ जीवनस्वाऽऽत्मभावेन, मृत्युमोहेन निश्चितम् जीवनं मरणं ज्ञात्वा, प्रमादं मा कुरुष्वभोः ॥५३७॥ मुक्तिराऽऽत्मनि विज्ञेया, माऽन्यत्रत्वं परिभ्रमः आत्मन्येवनिराज्यं, बाह्यराज्येषु मामुहः ॥५३८॥ स्वाश्रयेणैव जीव !! त्वं, मा जीव !! त्वं पराश्रयात् पारतन्त्र्यं महामृत्युः स्वातन्त्र्यमाऽऽत्मजीवनम् ॥५३९॥ स्वाऽऽत्मन्येवसुखं सत्यं, दुखं हि जडमोहतः आत्मानमन्तराकोऽपि, कदाचिन्नाऽस्तिशर्मवान् ॥५४०॥ आत्मनोरिपुरात्मैव, रागद्वेषादिसंयुतः आत्मनो मित्र माऽऽत्मास्ति, साम्येन कर्मनाशकृत् ॥५४१॥ आत्मनो बन्धुरात्माऽस्ति, मैत्र्यादिभावसंयुतः । आत्मन ईश्वरः स्वाऽऽत्मा, ज्ञानचारित्रसंयुतः ॥५४२॥ आत्मनः सूर्य आत्माऽस्ति, शुद्धब्रह्मप्रकाशवान् । आत्मनश्चन्द्र आत्माऽस्ति, शमसंवेगसंयुतः ॥५४३॥ कर्मकर्ता निजाऽऽत्मास्ति, कर्मभोक्ता तथाऽऽत्मराट्, कर्महानिजाऽऽत्माऽस्ति, बद्धोमुक्तोऽस्त्यपेक्षया ॥५४४॥ अनन्तशक्तिमान् ह्याऽऽत्मा, निजाऽऽत्मशक्तियोगतः अनन्तशक्तिमत्कर्म, पौद्गलिकक्रियाबलात् ॥५४५।। कुत्राऽपिबलवत्कर्म, कुत्राप्याऽऽत्मा बली भवेत्; ज्ञानसाम्यबलोपेत, आत्मा कर्मारिनाशकृत् ॥५४६॥
For Private And Personal Use Only