________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इलापुत्रोगतो मुक्ति, माऽऽत्मनोभावनाबलात्; आत्मशुद्धोपयोगेन, आषाढाकेवलीप्रभुः ॥५२३॥ आत्मभावनया मुक्ति, मनन्ताः खलुलेभिरे; भावनारूढजीवानां, शुद्धोपयोग आन्तरः ॥५२४॥ दानादिधर्मकार्याणि, न फलन्ति च तां विना; शुभाच्छुद्धा प्रजायेत, भावना मुक्तिदायिनी ॥५२५॥ आत्मोपयोगदातृत्वे, भावनाया महबलम् ; . बाह्यक्रियांविनाभावाद्, यथायोगं फलं भवेत् ॥५२६॥ आत्मनःशुद्धपर्यायाः सिद्धाऽऽत्मादिप्रभेदतः ज्ञातव्या उपयोगेन, सद्गुरुबोधयुक्तिभिः ॥२७॥ अर्हन्नस्तिनिजाऽऽत्मैव, सिद्धआत्मैवशाश्वतः आचार्योऽस्तिनिजाऽऽत्मैव, स्वाऽऽत्मैववाचकप्रभुः ॥२८॥ साधुरस्तिनिजाऽऽत्मैव, स्वाऽऽत्मैव परमेष्ठिराट् : शुद्धदर्शनमाऽऽत्मैव, ज्ञानमाऽऽत्मैव सर्वथा ।५२९॥ स्वाऽन्यप्रकाशकंज्ञानं, ज्ञानेनाऽऽत्माप्रलक्ष्यते; स्वभाव आत्मनो मुख्यो, ज्ञानं ब्रह्मैवसर्वदा ॥५३०॥ निजाऽऽत्मैवाऽस्तिचारित्रं, रमणं स्थैर्य माऽऽत्मनि; शुद्धोपयोग एवाऽस्ति, चारित्रं कर्मनाशकम् ॥५३१॥ आत्मवीर्य निजाऽऽत्मैव, वर्तते तनिजाऽऽत्मनि: आत्माऽसङ्ख्यप्रदेशेषु, पर्यायगुणशक्तिदम् ॥५३२॥ निजाऽऽत्मैव तपो बोध्यं, सर्वेच्छारोधकंमहद् कर्मणां निर्जरायेन, भवेन मुक्तिप्रदायकम् ॥५३३॥ गुणाश्चमर्वपर्याया, अनन्ता आत्मसंस्थिताः स्यादाऽऽत्माऽभेदतस्तेषा, मैक्यंजानन्तिपण्डिताः ॥५३४॥
For Private And Personal Use Only