________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यान्तरं जगत्सर्व, शुब्रह्मोपयोगिनाम् ; ब्रह्मानन्दप्रदं भूयान् , मूढानां दुःखहेतवे ॥२९५ ॥ सर्वविश्वस्थलोकानां, भक्तिरनादिदानतः कर्तव्या सर्वसाधूनां, यथाशक्ति यदा तदा ॥२९६ ॥ आत्मशुद्धोपयोगार्थ, सेवाभक्तिप्रसाधनम् : दयादानादिभिासेवा, कर्तव्या देहिनां सदा ॥२९७ ॥ आत्मोपयोगिनां किञ्चित् , कर्तव्यं नावतिष्ठते: मुत्त्यर्थं च तथा कर्म, कुर्वन्ति व्यवहारतः ॥२९८॥ मनोवाकाययोगाना, मुपयोगं सुयोगिनः उपकाराय कुर्वन्ति, शुडोपयोगजीविनः ॥२९९ ॥ उपग्रहोऽस्ति सर्वत्र, जीवानां च परस्परम् । उपग्रहप्रवृत्तिस्तु, जीवन्मुक्तसयोगिनाम् ॥३०० ॥ सत्कर्म देहपर्यन्तं, कुर्वन्ति वीतरागिणः अत आदेहमहन्तो, विश्वजीवोपकारिणः ॥३०१ ॥ अहंतां मार्गमालम्ब्य, संप्रात ज्ञानयोगिनः यद्योग्य तत्प्रकुर्वन्ति, कर्म स्वपरशर्मदम् ॥३०२ ॥ धर्मजातिक्रियावर्ण-, देशभेदाशुपाधितः निर्मोहत्वं समाश्रित्य, प्रवर्तन्ते मुनीश्वराः ॥३०३ ॥ अन्धश्रद्धात्वयातानां, विरुद्धभिन्नधर्मिणाम् : उपकाराय वर्तन्ते, जैनाः शुद्धोपयोगिनः ॥३०४॥ स्वोपयोगेन धर्मोऽस्ति, बन्धोऽस्ति मोहभावतः कर्मबन्धः कषायेन, मुक्तिः साम्येन देहिनाम् ॥३०५॥ रागद्वेषपरीणाम, एव संसारकारणम् : रागद्वेषारिहन्तणां,-मोक्ष एव करस्थितः ॥ ३०६॥
For Private And Personal Use Only