________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્ય द्वेषरागादिभिर्मुक्ताः शुद्धाऽऽत्मानो महर्षयः वीतरागा जिनाः शुद्धा, ईश्वरा देहसंस्थिताः ॥ २८६ ॥ सत्त्वप्रकृतिसंयुक्ता, ईश्वरा ब्रह्मरूपिणः एतैः प्रबोधितो धर्मों, जैनधर्मोऽस्ति शाश्वतः ॥२८७ ॥ सर्वज्ञा वीतरागा ये, तैर्हि विश्वस्थदेहिनाम् : मुक्त्यर्थं स्थापितो धर्मों,-जैनधर्मः स उच्यते ॥२८८ ॥ त्यागिनां च गृहस्थानां, स्वाधिकाराद् द्विधाशुभः गृहस्थैस्त्यागिभिः सेव्यो, जैनधर्मः स्वमुक्तये ॥ २८९॥ अन्यधर्मेषु सत्यं यत् , सापेक्षनयबोधतः तत् सापेक्षतया ग्राह्य, गीतार्थगुरुनिश्रया ॥२८७ ॥ शुद्धोपयोगिनां सर्व,-जगत् सम्यग्दृशां सदा, आत्मानन्दस्य हेत्वर्थ, सर्व सम्यक्तया स्थितम् ॥२८८॥ निश्चयाद् व्यवहाराद्यो, जैनधर्मों द्विधा सदा: व्यवहारो न मोक्तव्यो, निश्चयदृष्टिधारिभिः ॥२८९॥ व्यवहारनयोच्छेदा, ज्जैनधर्मक्षयो भवेत्। संघतीर्थक्षयश्चेति, सर्हिद्भिः प्रभाषितम् ॥२९॥ शुद्धोपयोगलाभार्थ, व्यवहारस्य हेतुता: आत्मनो निश्चयोधर्मः शुद्धोपयोग आत्मनि ॥२९॥ आत्मन्येवाऽऽत्मनो धर्मः शुद्धोपयोग इष्यते; शुद्धोपयोगिनां सर्व, विश्वमानन्दहेतवे ॥२९२ ॥ आत्मानन्दोपयोगार्थ, निमित्तं च जगद्भवेद्; ज्ञानेज्ञेयं जगत्सर्व, सुखाय स्वोपयोगिनाम् ॥२९३॥ बाह्यमयां सुखनास्ति, तद्यपि शर्महेतवे; ज्ञाने ज्ञेयतया भाति, ज्ञानात्सुखं निजात्मनि ॥२९४॥
For Private And Personal Use Only