________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०७
शुडप्रेम्णा दयावृद्धि-हिंसानाशश्च जायते वैरनाशोऽस्ति सत्पीत्या, मैत्र्या च स्वाऽऽत्मवज्जगत् ४०५॥ सत्यं जानीत भोलोकाः. सत्ये धर्माः प्रतिष्ठिताः सत्याज्ञया प्रवर्तन्ते, ते यान्ति सद्गतिं ध्रुवम् ॥४०६॥ सत्याज्ञया प्रवर्तध्वं, राग द्वेषं विहाय च सत्यनिष्ठा जनाः कर्म-क्षयं कुर्वन्ति सत्वरम् ॥४०७॥ सत्यमेव प्रभोराज्ञा, सत्यादया प्रवर्धते मनोवाकाययोगेन-हिंसां त्यजन्तु मानवाः ॥४०८॥ सत्यं पश्य प्रियं पश्य, सत्यं पथ्यं समाचर सत्यं ब्रूहि च सर्वेषां, सत्यं शुभं प्रियं कुरु ॥४०९॥ आत्मनः सर्वशक्तीनां, प्रादुर्भावं कुरुष्व भोः आत्मन्येव सुखसत्यं, बाह्यभोगेषु मामुहः ॥४१०॥ सर्वविश्वस्थजीवानां, सुखार्थ यच्च तत्कुरु दुःखं नेष्टं सुखं जीवा, इच्छन्त्यतः सुखं कुरु ॥४११॥ आत्मानन्दस्य सम्प्राप्ति-दयाद्यैः सात्विकैर्गुणैः अतोदयादिभिःसाध्य-आत्मानन्दो निजाऽऽत्मनि ॥१२॥ मोक्षमूलं दयां ज्ञात्वा, देहिनां त्वं दयां कुरु दयैव सत्प्रभोदृष्टि-दयायां सर्वशक्तयः॥४१३॥ दयां विना प्रभुदरे, नास्ति धर्मों दयां विना दयामयः प्रभोधर्मः, प्रभोर्वाणी दयामयी ॥४१४॥ सद्दयायां तपासेवा-भक्तियोगादिकर्मणाम् समावेशो भवत्येव, सद्दयां त्वं समाचर ॥४१५॥ रक्षिते हि दयाधर्म, धर्मो रक्षति रक्षकान् : स्वान्यजीवप्ररक्षार्थ, दयाधर्म समाचर ॥४१६॥ दयाया भावना याया, आत्मोत्थिता यदा यदा तदा ताः काव्यरूपेण, संलिखिता मया शुभाः॥४१७॥
For Private And Personal Use Only