________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૨
यदा यदा दयाद्यानां, प्राबल्यं क्षीयते तदा खण्डदेशे च जायन्ते, महासन्तो दयालवः ॥३९३॥ युगमुख्या:प्रजायन्ते, सूरयो धर्मधारिणः आत्मसामयतो विश्व-दयासत्यप्रचारिणः ॥३९४॥ येषां चित्ते दया नास्ति, दुःखिनामवलोकनात् जीवन्तो राक्षसा ज्ञेया, अशुभा जीविनोऽपि ते ॥३९५॥ दुःखिनो देहिनो दृष्ट्वा, तदुःखनाशनोद्यताः जीवन्तस्ते शुभा ज्ञेया-देवा देहावतारिणः ॥३९६॥ वीतरागमनुष्यहि-दया सत्या प्रकाश्यते सम्यजज्ञानेन कर्त्तव्य-महिंसाकर्म मानवैः ॥३९७॥ नाऽस्ति हिंसासमं पापं, नाऽस्तिधर्मो दयासमः नाऽस्ति ज्ञानसमं दानं, तपो नास्ति क्षमासमम् ॥३९८॥ धृत्वा मनुष्यजन्माऽपि, दयाधर्मो न धारितः हारितं जन्म तेनैव, ज्ञात्वा दयां समाचर ॥३९९॥ दयोपदेशं विज्ञाय, यथाशक्ति दयां कुरु कुरुष्व मा प्रमादं भोः, जागृहि हृदि सत्त्वरम् ॥४०॥ दुर्लभं दशदृष्टान्त-नृजन्म सर्वजन्मसु संप्राप्य जीव मा मुह्य, दयाधम समाचर ॥४०॥ दयाचारविचारेण, सर्वविश्वदयामयम् सन्तु परोपकारार्थ, विश्वलोकप्रवृत्तयः ॥४०२॥ हिंसाचारविचाराश्चि, नश्यन्तु सर्वविश्वतः अस्तु शान्तिमयं विश्व, प्रभवन्तु दयालवः॥४०॥ राजानो मन्त्रिणः श्रेष्ठाः, सन्तु वीरा दयालवः सर्वविश्वस्यशान्त्यर्थ, दयाधर्मः प्रवर्धताम् ॥४०४॥
For Private And Personal Use Only