________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
अवतरणम् - मोक्षोपायभूतस्य सम्यग् दर्शनज्ञानयोः फल स्य चारित्रस्य द्वैविध्यमाह ( आत्मनइति )
श्लोकः
आत्मनः शिवसौख्यार्थं द्विधा चारित्रसंगतिः ॥ द्रव्यतो भावतश्वोक्ता चतुर्धा स्थापनाभिदः ॥ १८ ॥
टीका -- शिवसौख्यार्थ मोक्षसुखार्थमात्मनश्चारित्र - सङ्गतिश्चारित्रलाभो द्विधा प्रोक्तो द्रव्यतो भावतश्च द्रव्यचारित्र पञ्च महाव्रते।च्चारणंय तिवेषावश्यकादिक्रियारूपम् । भावचारित्रं स्वस्वभावपरिणतिरूपम् । उभयमपि चारित्रं मोक्षसुखोपयोगीति सर्वथा तत्र यतनीयम् । ननु सर्वकर्मविप्रमोक्षो मोक्ष इति वचनात् सर्वकर्माभावे किं सुखं लप्स्यते प्रत्युत सर्वकर्मक्षयेऽ नर्थ पश्यामः । तथाहि सर्वकर्मक्षये शरीरक्षयस्ततः पुत्रकलत्रधनादिभिस्संबन्धाभावे तज्जन्यसुखाऽभाव इति चेन्नाऽऽत्मनः केवलज्ञानमन्तरेण सुखबिन्दोरभावात् । तथाहि । अहो अयं श्रेष्ठी विजने देशे केवलः शेते भृत्यपुत्रादय एव तत्कार्य कुर्वन्ति । गृहीतशखा द्वारपालाः कमप्यन्तः प्रवेष्टुं नाऽऽज्ञापयन्ति । ममापि पुत्रादयः कथ - मनुकूलाः स्युर्येनाहमपि बाह्यजनैरजातवार्त्तः केवलो भवामीति सर्वेषां निरुपाध्यर्थं प्रवृत्तिर्दृश्यते । किश्व कारागृहे रुद्धो जनो यदा मोक्ष्यते तदा सर्वदुः खध्वंसेन
For Private And Personal Use Only