________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२,
मद्भिः सामर्थ्यपर्यायै, ज्ञातव्यं तस्वमात्मनः अनेकान्ताष्टप:श्व. धर्मो ज्ञेयो विचक्षणैः ॥ १७४ ॥ नयभंगप्रमाणैश्च, सभ्यज्ज्ञानं प्रजायते; सम्यक्त्वं द्रव्यभावाभ्यां, सम्यक्चारित्रसंस्थितिः ॥ १७५ ॥ अप्रमत्तदशां प्राप्य. सहजानन्दस्य भोक्तृता; ध्यानिनः संभवेनित्यं, सम्यग् जानाति योगिराट. ॥१७६ ॥ आत्मनो दर्शनं प्राप्य, परमात्मा भवेद् ध्रुवम् ; पतदुक्त समासेन, ज्ञातव्यं ज्ञान योगिभिः ॥१७७ ।।
आत्मदर्शनगीतेऽयं शुद्धचैतन्यदर्शिका त्रिचतुर्थभव मोक्षः पाठकानां समाधितः ॥ १७८ ॥ आलोक्याध्यात्मशास्त्राणि, भावितात्मसमाधिना; उपकृत्य कृता गीता बुद्धिसागर साधुना, ॥ १७९ ॥ अम्मदावादनगरे, कृत्वाच मासकल्पकम; भव्यानां साभ्यसिद्धयर्थ, कृता काचिदुपकृतिः ॥ १८० ॥ बाणपण्णिधिचंद्राब्दे(१९६५ जेठशुदी १३)ज्येष्ठमासे सितेदले त्रयोदश्यां कृता गीता शर्मदा बुधवासरे. ॥१८१ ॥ जीवाः सर्वे सुखं यान्तु, शान्तिः सर्वत्र वर्तताम् ; वक्तृश्रोतृषु माङ्गल्यं, जयश्रीश्च ध्रुवा सदा. ॥१८२ ।।
इतिद्वयशीत्युत्तरशतश्लोकमिताआत्मदर्शनगीतासमाना ।
For Private And Personal Use Only