________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०८
Acharya Shri Kailassagarsuri Gyanmandir
आत्मदृष्टि प्रतापेन, साक्षादात्मा मदृश्यते; यत्र तत्राऽपितरस्मर्ता, शुद्धभक्त्या तदाश्रये. भूताश्च वर्तमानाश्च भाविनोये जिनेश्वराः जीवा एव परात्मानो, बोधे सम्यग् विवेकतः लक्ष्यलक्षणयुक्तोऽहं, भावशान्तिप्रकाशकः गुणपर्यायवान् सोsहं, विश्वेश स्तत्त्वाभास्करः आत्मनि मुक्तता ख्याता, परंज्योति निरामयः सुरामुरेन्द्र संपूज्यः सर्वलब्धि शिरोमणिः. आत्मा ज्ञेयः सदा ध्येयः स्ववद् वाच्छितप्रदः किमर्थ बाह्यभावेषु, भ्रमणं हि निरर्थकम् . सर्व विद्यासु श्रेष्ठा या विना निष्फलाः क्रियाः आत्मविद्या सदाराध्या, दुर्लभा जन्मकोटिभिः नश्यन्ति व्याधयः सर्वे, भावतपसामहीतले; आत्मज्ञानप्रतापेन, सर्वसंपद विजायते. अलं मिथ्याविवादेन, ज्ञानं सर्वज्ञभाषितम् ; अनेकान्तनयात् सिद्धि, भाषिता ज्ञानयोगिभिः जिनाज्ञापारतन्त्र्येण, यतितव्यं मुमुक्षुणा; यथा मोहो विलीयेत, यतितव्यं तथात्मना स्वसमयविहारेण, गन्तव्यं मोक्षसम्मुखं; साध्यबिन्दुः सदात्मावै, स्मारं स्मारं क्षणे क्षणे. उपास्योseश्य आत्मावै लक्ष्यजापेन योगिभिः लक्ष्यदत्तोपयोगेन, शुद्धं च निर्मलं पदं
-
For Private And Personal Use Only
॥ १६३ ॥
।। १६४ ॥
॥ १६५ ॥
॥ १६३ ॥
॥ १६७ ॥
।। १६८ ।।
।। १६९ ।।
॥ १७० ॥
॥। १७१ ।।
।। १७२ ।।
॥ १७३ ॥