________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३० निर्वचनमसंभवि पुनरात्मनस्तु का कथा निरुक्तावभिमानं ये दधते तार्किकादयः हर्षमिश्रादिभिस्ते तु खण्डनादौ मुशिक्षिता इति वेदान्ताचाय्रप्युक्तत्वात् तथाऽमृतो मरणधर्मरहितो मोक्षरूपो वा तथा दुग्धे नीरमिव देहे व्याप्नुवन्नात्माऽसंख्यप्रदेशकः अयं भावः यथा पयः पानीयं यो भिन्नत्वेऽपि परस्परसंश्लेषादभेद इत्र दृश्यतेऽत एव दुग्धामलितं जलमपि दुग्धमूल्पेन क्रोणन्ति लोकाः परं दुग्धास्वादरसिकैस्तदानीमप्यनुभूयते जलसम्पृक्तमिदं दुग्धं यतो नास्वाद्यन्ते दुग्धसम्बन्धिनो मधुरादिगुणास्तथाऽऽत्मापि पौद्गलिकदेहाद्भिन्नोप्यनादिकालपरस्परसंश्लेषाद् देहगुणस्थूलकृशत्वादि सामानाधिकरण्येनैव स्वगुणवान् दृश्यतेऽत एव देहसम्बन्धिनो धनपुत्रकल त्रादीन् स्वीयत्वेन व्यवहरन्ति लोकाः परन्त्वात्मसुखरसास्वादभावुकैस्तु बाह्यदृष्टिमपसार्य कृतान्तरात्मबुद्धिभिनिःसंशयमनुभूयते नैते धनपुत्रकलत्रादयो मां निलेपश्चेतनं सम्बनंति यदि मत्स. म्बन्धस्वभावाः स्युस्तदा रत्नत्रयवन् मुक्तावप्युपतिष्ठेरन् परमात्मावस्थायामपि वानुभूयरन् परतंत्रे तु केवलज्ञानमाहात्म्याद् बहिरात्मभावगन्धोऽपि नास्ति । इति सुष्ट्रका देहस्थोऽपि न देहीति ॥ ८३ ।।
અવતરણ–આત્મા અને દેહને કે સંબંધ છે, અને આત્માનું કેવું સ્વરૂપ છે, તે હવે ગ્રન્થકત્ત પ્રકટ
For Private And Personal Use Only