________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्पद्यन्ते च यथा वा कटाहपरिमिते दुग्ये किश्चिदधनि प्रति त्रिचतुःपहरानन्तरं कटाहो दधिपूर्णो दृश्यते दुग्धस्य नामापि न श्रूयते दुग्धगुणा अपि रसगन्धादयो नानुभूयन्तेऽतो मन्यामहे सर्व दुग्धं नष्टं दध्युत्पन्न. तच्च दधि प्रहरचतुष्टये कस्मिन् क्षण उत्पन्न मिति जिज्ञासायां नैव कस्मिंश्चिदप्येकस्मिन् क्षणे किन्तु प्रतिक्षणं दुग्धभावस्य विनाशो दधिभावस्योत्पतिः प्रत्यक्षाभावपि दधिपरिणत्याऽनुमीयते तद्वदात्मापि प्रतिक्षणमुत्यादविनाश-शाली मन्तव्यः ( उत्पद्यमानं भजते विनाशं प्रतिक्षणं तत्वमिति प्रतीतः प्रत्यग्रजीर्णत्वगुणा गुणानां दशानुभूता खलु जागरूका ) इति तेषां मतक्षतिस्तन्मतं नोपपद्यते यतः पापपुण्यस्य भोक्तृत्वं क्षणिके मते कथं घटते नैव घटत इत्यर्थः अयं भावः येनाऽऽत्मना हिंसा कृता स तु द्वितीयक्षणे नष्टः पुनः पापफलभाक को भवेत् ? फलकाले क्षणिकत्वाद्धिसितुरभावात् । हिंसायाश्च फलेनावश्यभवितव्यम् । अतः पापकर्त्ता न भुजीत दुःखं क्षणिकशासने अन्य आत्मा तु भुञ्जीत पश्य मोहविडम्बनम्" इत्यपि नात्युक्तिर्भवेत् । सिद्धान्तमते तु आत्मनोऽनादिनिधनत्वाद् यो हिंसति स एव हिंसाफलं दुःखं झु. ङ्क्ते हिंसाकाले फलकाले चैकस्यैवात्मनस्सत्वादिति ॥७४॥
અવતરણ–આત્માને કેટલાક ક્ષણિક માને છે, અને કેટલાક નિત્ય માને છે. જે પુરૂષે આત્માને ક્ષણિક માને છે, તેમના વિચારમાં શું દુષણ આવે છે તે પ્રકાર शीव छ
For Private And Personal Use Only