________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९९
त्मशक्तिरुदेति तत्समुदायेन नैव विद्यते कश्चिज्जन्मान्तरफल - भोक्ताSSत्मा तदभावे च धर्मकर्मनित्यनैमित्तिकानुष्ठानादयोपि दूरादपसारिता एव ( धर्मव्याज परैर्वृर्ते लोकाद वृत्तिर्विनिर्मिती धर्मध्यानादिपूजादि सर्व मूढप्रवञ्चनम् )
स्यादृश्यते किन्न नैवास्तीति मन्महे | आत्मानं फलभोक्तारं नैव प्रत्येति बुद्धिमान् ।
इत्याद्याचक्षाणा उच्छृङ्खलाः कथं तूष्णीं नीयन्त इति चेदत्र ब्रमः यदि जन्मान्तरकृतकर्माऽत्रजन्मनि न फलं भुङ्क्ते तद समानमीहमानानां केचित्तत्फलमश्नवते नापरैः फलगन्धोपि हानिः प्रत्युत चाप्यते विना शुभादिकर्मभ्यां नास्तिकः सम्मुखे बुधां यद्वातद्वा ब्रुवन् प्राज्ञैरर्धचन्द्रेण सार्यते इत्युक्त दिशा उद्योगवतां समानवि नवानां तुल्यैः फलै - भवितव्यम् । दृश्यते तु सर्वे षां भिन्नफलतेत्यनेकजन्मवानात्मास्तीत्यत्रत्यक्षाप्यनुमयिते ।। प्रकृते यदि जन्मान्तरीय आत्मा न स्यात्तदुत्पन्नमात्रस्य वालस्य मातृस्तन्यपाने प्रवृत्तेः किं कारणमिति नास्तिको ब्रवीतु । तस्य मते जन्मान्तरीयस्यात्मन एकस्याभावात् ममेदं स्तन्यपानमिष्टमि ति स्मरणरूपज्ञानस्य तज्जन्यायाः स्तन्यपानेच्छायाश्चाभावात् । अस्माकं जन्मान्तरानुभूतस्मृतिरिदानीमपि विद्यत आत्मन एकत्वादिति न दोषलेशशेषोपीति विचारयन्तु विद्वांसः । नन्वेकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति न्यायेन स्मृतावप्युद्धोधकं कारणं तत्त्वत्र न पश्याम इति सिद्धान्तिमतेऽपि कथं स्त
For Private And Personal Use Only