________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
અંશે આત્મરમતા ઓછી થાય, અને દેહ આદિ પિગલિક પદાર્થની સાથે આત્માની એકતાને વિચાર ઉપજે, તેટલે અંશે કર્મબંધ થાય છે. માટે ક્ષણે ક્ષણે આત્મા તેજ હું છું, એવી નિશ્ચય દષ્ટિ રાખી, શુદ્ધ વ્યવહાર પાળવે.
अवतरणम्-आत्मधर्मप्राप्त्यर्थं सद्गुरूपदेशो विनयादिना श्रोतव्यः तदेवाह ।।
श्लोकः आत्मधर्मोपदेष्टारः सुव्रता मुनयो मताः ॥ तान् प्रणम्य महाभत्त्या श्राव्यो धर्म सुशिष्यः२१
टीका-आत्मधर्मो रत्नत्रयं तदनुजिघृक्षयोपदिशन्तो मुनयो मताः अगृहीतचारित्रा न परानुपदेष्टुं योग्याः लान् महा भक्तयाऽऽदरातिश्येन प्रणम्य कायवाङ्मनसैनत्वा सुशिष्यकैः (संस्थायाभिमुखं प्रणम्य विधिवत् त्यक्तान्यवादान् प्रभोः गुवहिव सदा भवान्तकरणीत्येवं धिया चिन्तयन् ) इत्यादि शिष्यगुणयुसौधर्मः श्राव्यः यथा वमनविरेचनादिभिः शुद्धकोष्ठे रोगिणि निक्षिप्तमीप समूलघातं हन्ति रोगम् ।।
मलिनकोष्ठे तु व्यर्थी भवदपि कदाचिद्रोगान्तरमपि जनयेत् । तथा शिष्यगुणयुक्त निक्षिप्तो धर्मस्समूलघातं हन्ति रागद्वेषादीन् । अन्यथा तु व्यर्थीभवन् कदाचिद् गुरुदोषदृष्टिं जनयन् दीर्घसंसारमपि बन्धयेदिति तात्पर्यम् ॥ २१ ॥
For Private And Personal Use Only