________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाऽशुद्धास्तेन जीवस्य संसारानर्थपात आत्मपदेशेषु यावत्कर्म पंकस्य गंधोऽपि स्यात् तावन्नाननिवृत्तिरितिभावः मुक्तावस्थायां तु आत्मनोऽसंख्यप्रदेशाः शुद्धाः सन्ति केचिन्नैयायिकादय आत्मानं सर्वव्यापकं मन्यन्ते तेषामयमभिप्रायः आत्मनो यदि संकोचविकाशशालित्वं मन्येत तदा सावयवत्वेनानित्यता स्यात् परं तन्न रोचते विद्वन्मनोभ्यस्तथाहि यद्यात्मनो व्यापक स्वरूपं सदा स्वर्गादिगमनमसंभवि गमनं ह्येकत्रस्थितस्य दृश्यते । न तु व्यापकस्याकाशादेः किञ्च यद्यात्माव्यापक स्तदा स्वात्मवत् परामस्थमुखदुःखादिगुणान् कथं न विद्यासर्वत्रात्मनो विद्यमानत्वात् केचिदात्मानमणुपरिमाणं सिद्धान्तयन्ति तेषामयमभिमायः यत्राघातेन मरणं स्यात् तानि मर्मस्थानानि परन्त्वन्यत्र मर्मस्थानेषु क्षतः पाणी भैपज्यप्रतिकारेण जीवन्नपि दृश्यते । हृदयमर्मस्थाने वाहतो धन्वन्तरिणापि भैषज्यसहस्रणापि जीवयितुं न पायंत इति हृदयदेशे निष्ठञ्जीवोs शुपरिमाण इति परमत्रापि मतेनैव दोपविनिर्मुक्तिस्तथाहि । यद्यणुपरिमाणको जीवस्तदा शरीरे यदेशेनावच्छेदेन विद्यते तत्रैवाघातवेदना । मुखवेदना वानुकुलसम्पत्स्यिान्न स्याच करचरणादिक्षतो जीवो दुःखानुभविता दृश्यते तु प्रतिकुलेनानु कुलेन वा सर्वाङ्गीणस्पर्शेन दुःखं मुखं वानुभति न दृश्यते च मिनशरीरे पतन्तीमापदं भुञ्जान इति मध्यमपरिमाणं (शरीराविछिन्नपरिमाणमा ) ह जैनाचार्याः पिपीलिका
For Private And Personal Use Only