________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षु दशविंशा विदन्तोपि न ह्यन्यान्वेदयितुं समर्था ईशाना अ. पि नहि सर्वानाबालद्धेभ्यः किन्तु कतिचिदेव जन्मान्तराभ्य.. स्तशास्त्रान् पञ्चषान् तत्राप्यध्यनाध्यापनकालः कीदृशैः क्लेशैरतिवाह्यत इत्यत्रानुभूतश्रमा एव प्रमाणमित्यन्येभ्यो व्यतिरेकं दर्शयति यस्येति यस्याशिषो जडः शिष्यो भूतले पण्डितो भवेत् ॥ गुरुः पार्श्वमणिज्ञेयः सेव्यः स्तुत्यः सदा मुदा ॥३॥
टीकायस्य गुरोराशीर्वादादेव न त्वन्यवद पाठनात् जडो महामन्दबुद्धिरपि शिष्यः भूतले न हि स्वगृहे ग्रामे देशे वा पण्डितो भवेत् स्वयमसंशयानो निःसंश यत्यन्यान् संशयानानित्यर्थः दान्तिकं दृष्टान्त मुद्रया स्पष्टयति गुरुरिति। स गुरुः पार्थमणिज्ञेय इत्यतः सदा सेव्यः पादवन्दनाज्ञाकरणतरलनेत्रीनरीक्षणादिना मुदा स्तुत्यः ।। अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकयेत्यादिना । अयं भावः पार्श्वमणिः स्वसम्पर्क मात्रेण धावधमं लोहं चक्रवर्तिमुकुटाई मुवर्ण करोति ।। तद्वद् गुरुरपि पुरुषाधमं हस्तेन शिरः सट्टा राजाधि राजपूज्यं करोतीति तत्कृपाकटाक्ष प्रतीक्षमाणो गुरुसेवा परायणो भवदिति निदर्शनं चात्र मृन्मयं द्रोणगुरुं सेवमानो भिल्लो धानुष्काग्रेसर आसीदिमं दृष्टवाऽ ज्र्जुनोऽपि विसि स्मिय इति कथानु योगविदा नातिपरोक्षम् अन्यमतेऽपि एवं
For Private And Personal Use Only