________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मप्रदीपः स्वोपज्ञटीकासहितः
श्लोकः हृदि ध्यात्वा गिरामीशं गुरुं तत्त्वार्थबोधकम् ॥ आत्मप्रदीपनामानं ग्रन्थं विस्तारयाम्यहम् ॥१॥
टीका भङ्गलाचरणम्.
श्लोकः पार्श्वनाथ तवालम्बात् का वराकी भव्यथा ॥ मातुह्यङ्कस्थितार्भस्य शक्रादपि न हेलना ॥१॥
ग्रन्थस्य निष्प्रत्यूहव्यूहसमाप्त्यर्थं स्वेष्टदेवतास्तवन पुर. स्सरं प्रतिजानीते ग्रन्थकारः । हृदीत्यादिना गिरां भगवत्के. वलिवचनानामीशं जिनवरं हृदि ध्यात्वा मनागपि बाह्यवृत्या ध्यानं माभूदिति हृदीत्याह । तेन भगवन्निष्ठरत्नत्रयादिगुणे रात्मानं तन्मयं कृत्वा च तादात्म्यैकतानतया भगवत्यादरातिशयोऽभिधित्सितः । माताभकमिव यो गुरुरमृतवर्षिण्या दृष्टयाऽभिषिञ्चन् तत्वार्थ शिक्षयांचवे तमपि ग्रन्थादौ स्मरति गुरुं तत्त्वार्थबोधकमिति । तत्त्वानां जीवादिमोक्षातानां सम्यक्प्रकाशकस्तं ननु जिनवरे ध्याते गुरु
For Private And Personal Use Only