________________
तबादश्रुत्वाशीलवती स्वचेतसि तदर्थसकलंविभाव्य निश्चयामास-अनेन शकुनेन मम माहात्म्यप्रतिदिनमधिकाऽधिकं भविव्यति, सर्वविपत्तयश्चविनाशमवाप्स्यन्ति, इति मनसिनिश्चित्य निजश्वशुरेणसाकं सा स्वगृहमियाय । तदानी गृहस्थितोऽजित| सेनकुमारोनिजपल्या शीलवत्यासमेतं समायान्तं पितरविलोक्य भृशं चुक्रोध, जगादच-हे तात? तावकीनं जीवितंधिगस्तु, महापापवेश्म दुश्चरित्रविधायिनी चेयमसती नारी कथमत्र पश्चात्वयाऽऽनीता अनया धूर्तया त्वमपिवञ्चित एवदृश्यसे । रे! महाबुद्धिनिधानोऽपि तद्वञ्चितोभवान्कथं विपरीतमिदं कृतवान् ? तथाविधं पुत्रवचनं निशम्य रत्नाकरोऽवोचत्-हीनमते ! तिरस्कारवचनानि मावद, त्वंमूढोऽसि किमपि नजानासि । असौवधूस्तु साक्षात्सरस्वतीजन्मधारिणी विद्यते, सर्वसम्पदा निधानश्चदृश्यते । प्रियपुत्र ? किश्चिद्विचारंकुरु, गृहान्तर्गत्वा तवशय्यायां दृष्टिप्रसारंविधत्स्व, तत्र कोटीमूल्यानि पञ्चरत्नान्यनयावध्वा स्थापितानिसन्ति, तथैवास्मिन्स्यन्दने दशकोटीमुद्राप्रमितंधनं समानीतमस्ति । तस्यपर्यालोचनंतु कुरु, तत्सर्व मिलित्वा पञ्चदशकोटीमुद्रा अस्मद्नेहेऽनयैव सौभाग्यवत्या समानीता इतित्वं विद्धि । अतोऽसौवधूः साक्षात्कुलदेवीवास्मत्कुल| भूषणस्य वृद्धिविधायिनी विराजते । इत्थं पितृवचनानि समाकर्म्याजितसेनः सत्त्वरं समुत्थाय स्वकीयशय्यासनंगत्वा तत्रमुक्तानि पञ्चरत्नानि गृहीत्वा रथस्थितं दशकोटीधनंचसमादाय भृशं प्रमुदितस्तत्समग्रमेकीकृत्य पञ्चदशकोटीधनं स्वनिधान गृहे स्थापयामास । सम्पत्तिग्रहणे को विलम्ब कुर्यात् ? कोवा नप्रमोदते १ यतः-अर्थस्यपुरुषो दासो-दासस्त्वर्थो न कस्यचित् । इतिसत्यमहाराज ? तेन पद्धोऽसिकौरवैः ॥ १॥ इति भीष्मोक्तिः । यस्यास्तिवित्तं स नरः कुलीन, स पण्डितः स श्रुतिमान्गुणज्ञः । स एव वक्ता सचदर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ति ॥२॥ अहो ? कनकमाहात्म्य, वक्तुं केनाऽपिशक्यते ।
For Private And Personale Only