________________
द्वितीयः प्रस्तावः।
अजितसेन शीलवती चरितम् ।
॥४२॥
पलायमानं विलोक्यमयाज्ञातं यद्भीरुतयानश्यतोऽस्यपृष्ठेप्रहाराः सञ्जाताः, नायं सन्मुखंस्थित्वा युद्धविधायी, तस्मात्सुष्ठुकुट्टितोऽयमिति मयाभाणितम् । अरण्यवर्तिनं देवालयं दृष्ट्वा भवता तस्य प्रशंसानियत, परं तत्र शून्ये देवमन्दिरेस्तेना जारपुरुषाश्च निवसन्तीति विज्ञाय मयाऽशोभनं निष्प्रयोजनमिदमित्युक्तम् । पुनस्तस्मिन्विशाले नगरेऽस्माकं सम्बन्धिमित्राद्यभावानकोऽपि सत्कारसेवां विधास्यति. तस्मादहमवादिषमिदनगरं शून्यं प्रतीयते । अथ तस्मिन् शून्यप्राये ग्रामे सत्कारादिविधायी मममातुलोन्यवसत्तस्माच्छोभनोऽयं ग्रामइति मयामणितम् । अथवटस्यच्छायायामुपवेशनार्थ भवता समादिष्टाऽहं तथानाकार्षम् , यतोयस्य पादपस्य शाखासु संस्थिता वायसादिविहगा विष्ठां कुर्वन्ति, तदधस्ताविषयस्य शिरसि विष्ठापातः सञ्जायतेचेनहि तत्स्वामीस्वल्पकालेनविनश्यति, लक्ष्म्यादिविनाशश्च जायते । तस्मादेव यत्रविष्ठापतनभयं न भवति तादृश्या रथस्यच्छायायामहमुपाविशम् । एवंविधानि सयुक्तिकानि शीलवतीवासिनिशम्य तानि च तच्चरूपाणि विज्ञाय सकौतुकः प्रमोदोल्लसितरोमाञ्चोरत्नाकरो मनसि व्यचिन्तयत्-यथा कस्यचिदगाधबुद्धिवैभवस्य जनस्य नैपुण्यमर्यादानविलोक्यते, यथा च निरवधिमतिशालिमिर्जनैः सदासेव्यमानस्य योगिजनस्य हृद्गुहाभिनिविष्टज्ञानसीमा दुर्विज्ञेया विद्यते, तथैवास्यावध्वा बुद्धिगाम्भीर्यमहिमा प्रतीयते । यथाभूमेः प्रमाणमस्ति, समुद्रोऽपि सप्रमाणो विज्ञायते, शास्त्रवेदिभिः सततं सूर्यगतिमानं कियद्भवतीति व्यलेखि, यद्यद्वस्तु जगति दृश्यते तस्य सकलस्य प्रमाणनियमो विहितोऽस्ति, परं सत्पुरुषविज्ञानविपयस्य र्मयादान्तो ज्ञातुमशक्योवर्त्तते । नूनमस्याः शीलवच्या अपि मतिः पयोनिधिवदतिगम्भीराऽनुमीयते । इत्थं विचारयन्प्रमुदितहृदयो रत्नाकरः श्रेष्ठी स्वनगरोपकण्ठमाजगाम । तस्मिन्कालेतत्रोच्चैःस्थलेनिषण्णस्तित्तिरिः स्वभाषया ननाद,
॥४२॥
For Private And Personale Only