________________
Shri Mahavir Jain Aradhana Kendra
श्री अजितसेन
शीलवती
चरितम् ।
॥ ४३ ॥
133++******+++)
www.batirth.org
Acharya Shri Kaassagarsun Gyanmandr
For Private And Personal Use Only
*133*++--
नामसा म्याद होचित्रं, घत्त्रोऽपि मदप्रदः ॥ ३ ॥ तथाच-नवितंदर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो । मुनेरपियतस्तस्य, दर्शनाश्चलतेमनः ॥ ४ ॥ ब्रह्मनोऽपि नरः पूज्यो - यस्याऽस्ति विपुलंधनम् । शशिना तुल्यवंशोऽपि निर्द्धनः परिभूयते ॥ ५ ॥ प्रस्तावः । स्त्रीरूपं मोहकं पुंसो - यून एव भवेत्क्षणम् । कनकं स्त्रीबालवृद्ध - पण्डानामपि सर्वदा ।। ६ ।। न नरस्य नरो दासो- दासश्चार्थस्य भूपते ! | गौरवं लाघवं वापि धनाऽधननिबन्धनम् ॥ ७ ॥ विभवोहि यथालोके, न शरीराणि देहिनाम् । चाण्डालोऽपि नरः पूज्यो - यस्यास्ति विपुलं धनम् ॥ ८ ॥ त्यजन्ति मित्राणि घनैर्विहीनं, पुत्राश्रदाराश्व सुहृज्जनाश्च । तमर्थवन्तं पुनराश्रयन्ते, ह्यर्थोहिलोके पुरुषस्य बन्धुः ॥ ६ ॥ बुभुचितैर्व्याकरणं न भुज्यते, पिपासितैः काव्यरसो न पीयते । नच्छन्दसाकेनचिदुद्धृतं - कुलं, हरिण्यमेवार्जय निष्फला गुणाः ॥ १० ॥ धनैर्निष्कुलीनाः कुलीना भवन्ति, धनैरापदं मानवा निस्तरन्ति । धनेभ्यः परोबान्धवो नास्तिलोके, धनान्यञ्जयध्वं धनान्यर्जयध्वम् ॥ ११ ॥ दुन्दुभिस्तुसुतरामचेतन- स्तन्मुखादपिधनं धनं धनम् । इत्थमेवनिनदः प्रवर्त्तते, किंपुनर्यदिजनः सचेतनः ॥ १२ ॥ त्यक्त्वा युवा स्वयुवतिं स्वविलासयोग्यां, दूरं विदेशवसतौ निवसन् धनार्थी । रात्र्यागमे स्मरति तां न समेति तस्मा-त्कान्ताभ्रमादपि वरः कनकभ्रमोऽयम् ।। १३ ।। जातिर्यातु रसातलं गुणगणस्तस्याप्यघोगच्छतु, शीलंशैलतटात्पतत्वभिजनः सन्दह्यतां वन्हिना । शौर्येवैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं, |येनैकेनविना गुणा स्तृणलवप्रायाः समस्ता इमे ||१४|| माता निन्दति नाभिनन्दति पिता भ्राता न संभाषते, भृत्यः कुप्यति नानुगच्छतिसुतः कान्ताच नालिङ्गते । अर्थप्रार्थनशङ्कया न कुरुते संभाषणं वै सुह-तस्माद्द्रव्यमुपार्जयस्व सुमते ? द्रव्येण सर्वे वशाः ।। १५ ।। अतः समृद्धिचयंदृष्ट्वाऽजितसेनकुमारः परमानन्दितः स्वभार्यायाः कौतुकजनकंवृत्तान्तं निजजनकं
द्वितीयः
॥ ४३ ॥