________________
Shri Mahavir Jain Aradhana Kendra
**+++++++++++++)
www.kobatirth.org
पप्रच्छ । हे पितः ? कुतोऽयंघनलाभोऽजायत ? केन प्रकारेण युवयोः पुनरागमनमभूदिति पुत्रोक्तिप्रेरितो रत्नाकरः प्रोवाचहे सूनो ? अस्मान्मयि निर्गतेवर्त्मनि महामतिशालिन्याऽनयाशीलवत्या यान्याश्चर्यजनकानि बुद्धिसाध्यानि कार्याणि प्रकाशितानि तानि विलोक्याहन्तु साचाद्देवाङ्गनामिवैतां मन्ये । इत्यभिधाय तदीयं सर्ववृत्तान्तं साद्यन्तं तस्मैकथयामास । इत्थं स्वजनकोक्तं निजभार्याया बुद्धिनैपुण्यं निशम्य लञ्जाक्रान्तमानसो जातानुशयः कौतुकितः प्रमोदमेदुरोऽजितसेनोऽजनिष्ट । ततश्विरं भूतलं निरीक्षमाणः स विचारशून्य इवालक्ष्यत । येजनाः सत्याऽसत्यपरीक्षामकृत्वा सहसाऽविचारितकार्य विदधति, तेऽजितसेनवत्पश्चात्तापमवाप्य निम्नवदना भवन्ति । तस्माद्भोः श्रोतृजनाः ? तत्त्वग्राहका भवथ, गुणानामगुणानाञ्च परीचायां सामर्थ्यं भजत, सत्पुरुषाणामिदमेवलक्षणं विनिर्दिष्टम् - यत्स्वकृतमपराधं विज्ञाय धृतलजोऽधोमुखः सज्जनस्तिष्ठति, यतो महतां नराणां हृदयमाश्रित्य लजादयो विशेषगुणा विश्राम्यन्ति । इतो भूतलबद्धदृष्टिरजितसेनः स्वचेतसिव्यचिन्तयत्-मम चातुर्यकलांजीवितञ्चधिगस्तु । यथाऽसत्कविः स्वनैपुण्येन पण्डितायते तथैवाऽहंजातोस्मि, यतोनिष्कलङ्का भार्या मयामुधा कलङ्कीकृता । लोकोत्तरचारुचरित्रामेतां सतीमतल्लिकांभृशमपीडयम् । तस्याः क्रोधशान्तिकेनप्रकारेणाहं करिष्यामि १ एवं शोचमानमजितसेनं तत्पिता रहसि समाहूय बोधयामास । सूनो ? किमर्थंशोचसे ? शान्तोभव, यतो यत्कार्यमनभिज्ञतया - सम्पद्यते तस्मिन्मानवदोषो नैवगण्यते । तथैव तव भार्याऽपि समस्त गुणमण्डिता शान्तरससुधासेविनी वर्त्ततेऽतः सर्व त्वदपराधं सा सहिष्यते । इत्थं निगद्य न्यायनिपुणौ जनकात्मजौ स्वापराधान् शीलवतीसन्निधौगत्वा चमयामासतुः, ऊचतुश्वश्रद्यप्रभृतिसाहसिक कामपिक्रियां नविधास्यावः, ईदृशानि निजश्वरशुस्वामिनोर्वात्सन्यभृतानि वाक्यानि श्रुत्वा शीलवती
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
8461984-16K++***+07