________________
श्री अजितसेन शीलवतीचरितम् ।
॥४४॥
विनयोल्लसितमानसाऽवादीत् हे पूज्यपादौ ? अस्मिन्कार्यप्रस्तावे भवतोरेव केवलं दोषो नास्ति, यतो मयापि पूर्वपञ्चरत्नानां | द्वितीयः प्राप्तिवृत्तान्तं भवतामग्रे नप्रकाशितमतोऽहमपिसदोषाऽस्मि, साच ममापराधस्यैवशिक्षा जातेतिमन्ये । अथ तौ जनकात्मजौ ||
प्रस्तावः। कार्यवाहकाविव शीलवत्याः सुविहितामाज्ञा पालयतः स्म । यथा पूज्योऽपि गुरुर्मेधाविनं सुविनीतं शिष्यं पृष्ट्वा कार्य साधयति, तथा तावपि शीलवतीवुद्धथनुसारेणैवयत्किश्चिदपिकार्यकुरुतः । गाढान्धकाराऽभिव्याप्ते प्रदेशे निपतितानां जनानांदीपिकेव शीलवती निजबुद्धिप्रभावतःसमजनि । सर्वासामापदांनिवारयित्रीचसा व्यजायत, पश्यत बुद्धेः साफल्यकीदृग्विधमस्ति ? उक्तश्चाऽन्यत्र-यस्यबुद्धिर्वलंतस्य, निर्बुद्धेस्तुकुतोबलम् । पश्य सिंहोमदोन्मत्तः, शशकेन निपातितः ॥ १ ॥ अपूर्वः कोऽपिकोशोऽयं, विद्यते तव शेमपि । व्ययतो वृद्धिमायाति, क्षयमायाति सञ्चयात् ॥२॥ अनेकसंशयोच्छेदि, परोक्षार्थस्यदर्शकम् । | सर्वस्यलोचनंज्ञान, यस्यनास्यन्धएवसः ।। ३।। सर्वद्रव्येषुमेधैव, द्रव्यमाहुरनुत्तमम् । अहार्यत्वादनयत्वा-दक्षयत्त्वाच्चसर्वदा ॥४॥ हर्जुनगोचरंयाति, दत्ताभवति विस्तृता। कल्पान्तेऽपिन या नश्ये-किमन्यन्मतिना समम् ॥शा ज्ञातिभिर्वष्ट्यतेनैव, चौरेणापिननीयते । दाने नैवक्षयंयाति, बुद्धिरत्नं महाधनम् ॥६॥ मातेव रक्षति पितेव हितेनियुले, कान्तेव चाभिरमयत्यपनीयखेदम् । लक्ष्मींतनोति वितनोतिचदिचुकीर्ति, किं किं न साधयति कल्पलतेवबुद्धिः ॥७॥ श्रियःप्रदुग्धेविपदोरुणद्धि, यशांसि सूते मलिनं प्रमार्टि । संस्कारशौचेनपरंपुनीते, शुद्धाहिबुद्धिः किलकामधेनुः ॥८॥ वसुमतीपतिना न सदामतिबलवतारिपुणाऽपि न नीयते । समविभागहरैर्नविभज्यते, विबुधबोधबुधैरपिसेव्यते ॥९॥ सदुद्धियेदिका चिन्ता, वराकोदर पूरणे । शुकोऽप्यशनमामोति, रामरामेतिचब्रुवन् ॥१०॥ ततोरत्नाकरश्रेष्ठिनोगृहे मुख्याधिकारिणी शीलवती जज्ञे। यतोवयसा
For Private And Personale Only