________________
ShriMahavir JanArchanaKendra
www.kobahirihora
द्वितीय
प्रस्तावः।
अजितसेन शीलवतीचरितम् । ॥४१॥
वणं समभूत् । तदानीं धनपालपितुर्योमुख्य कार्यकर्ताप्राचीनोऽभूत्सएवतस्य धनपालस्य भार्या निजपितृगेहस्थितामाशु समादायात्रपत्तने समागत्य धनपालसमीपं जगाम । तेनकार्यवाहकेन तत्प्रतीत्यर्थ स्वानुभूतं सर्व वृत्तान्तं निवेदितम् । ततोधनपालेनाऽपि निजसेवकवचनं सम्मान्य स्वकीया पत्नी स्वीकृता । तस्मिन्समये धनपालोऽवोचत्-मन्त्रिपुङ्गव ? ममस्त्री पञ्चत्वं प्रपन्ना, मत्पितुः सर्वसम्पत्तयो धर्मकार्येषु व्ययिताआसन् , गृहहभाण्डादिकमवशिष्टं यत्किश्चित्सर्व भवतः प्राभृतीकृतमभूदेवं पूर्वत्वमकथयस्तस्य किं कारणम् । अधुना तत्सर्व मांप्रदातुं कथं समायातोऽसि ? तत्कारणवद । मन्त्रीवभाषे-कुमारन्द्र ! तव पितुर्मरणसमये तवकीदृशीस्थितिरासीत्तत्स्वयंजानासि, तस्मिन्समये मयाशोभनस्थितिसम्पादका येप्रयोगा दर्शितास्तेषां समाचरणेनाधुनाफलं किं भवता न प्रत्यक्षीकृतम् । तस्यविचारणा स्वयमेव क्रियताम् । भवदन्तिकस्थितं सकलं धनं यदाव्ययितमभृत्तदातस्या वाराङ्गनायाः कीदृक्षः प्रेमभावोऽभवत्तदनुभवार्थमेवपश्चाच्चभवतः सत्प्रवृत्तिकरणार्थमस्माभिरेष प्रपञ्चोऽक्रियत । इदानी युष्मदीयं सत्प्रवर्त्तनमालोक्यातीवसन्तोष व्रजामि, भवतः पितुर्याधनगृहोद्यानादिका अखिलर्द्धयस्ताः सर्वा भवतास्वीक्रियन्ताम् । अद्ययावद्युष्मत्पैतृकसम्पदादिम्यो वराटिकामात्रमप्यसन्मार्गे मयानव्ययितम् , अधुना चविस्थामहं प्रयातस्त| स्माद्भववंशपरम्पराप्राप्तां समृद्धिं स्वाधीनीकृत्य संरक्ष्य च प्राचीनवद्व्यवहाररचना भवताविधीयताम् । युष्माकं सबनि किं न्यूनमस्ति ? यतोऽस्य राज्यकार्यभारस्य प्राणापहारिण्यां व्यवस्थायां पतितोऽसि । एतावदुत्वा धनपालं तोषयित्वा स मन्त्रिपुङ्गयो विरराम । ततोधनपालोज्ञातनिजवृत्तान्तो भूपतेराज्ञामादाय नृपसकाशाल्लचप्रमाणं पारितोषिकं लब्ध्वा समायः स्वगृहं | प्रययौ । अहो! असिन्क्षणे दैवगतेः किंवर्णनंविधेयम् । तथैवमानवानामुदयास्तयोवृत्तान्तं किं वर्णनीयम् ? यथा धनपाल:
॥४१॥
For Private And Personlige Only