________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
पुनर्नृपतिरुवाच-जीवितदायक ? अहंतवापराधकारकोऽस्मि, तस्मान्ममयोग्यां शिक्षांकुरु, शिरसात्वदुक्तं दण्डस्वीकरोमि । मित्र ? यदित्वमेवापराधिनोममशिक्षा करिष्यसिचेदने परमाधार्मिकभयंमे नभविष्यति । ईदृशं राजवचनं समाकये धनपालोऽवदत्-भवान्ममपूजनीयः स्वामी, अहन्तुभवदीय सेवकोऽस्मि, तदघटितमेतदकृत्यं कथमहंकरोमि ? राज्ञामणितम्अस्त्वेतस्मिन्विषयेकाऽपि चिन्तानास्ति, किन्तुवरं याचस्व, यत्त्वं प्रार्थयिष्यसितदहं दास्यामि, किंबहुजल्पनेन ? इदं राज्यं सर्वस्वश्च यदि मार्गयिष्यसि तदपिवितरिष्यामिखलु, तस्माइहि । इत्थं तदीयमनवा भावयुक्तं वचनंविज्ञाय धनपालोऽवदत्राजन् ! निर्धनचाद्भवच्छरणमायातस्य ममसदैवरक्षणं भवताविधेयमित्येतावता सुप्रसन्नोऽस्मि । इत्थं तदीयवचनेनाप्लावितहृदयोनृपतिर्जगाद-कुमार एवंमा वद, त्वन्तुपितृवन्मम माननीयोऽसि । यतः-योनरो जन्मदाता स प्रथमः पिता ज्ञेयः, येनतत्त्वज्ञानप्रदानेन धर्मबोधोविहितःस द्वितीयः, य: सद्विद्याप्रदाता सतृतीयः, अन्नदायकश्चतुर्थः, सोचनेकविधभयेभ्यो रचक: पञ्चमः पितेत्येवंपञ्चविधोजनकसम्बन्धो धर्मशास्त्रेप्रकाशितोऽस्ति, तन्मध्ये भवानागतोऽस्ति, ममनूतनजन्मप्रदातारं त्वॉपितृसमानंमन्ये, अद्यप्रभृतिसराज्योऽहं त्वदायचोसि, मदीयराज्यव्यवस्थामपि तव करस्थितां विजानीहि, एतादृशं नृपभाषितं समाकर्ण्य धनपालोऽगदत्-पृथ्वीपाल? त्वदीयमुदारमिदं वचः श्रुत्वा परमानन्दमहं प्राप्तोऽस्मि । परमात्मानश्चैतावद्याचे, यदिदं तवराज्यं सम्पदश्चचिरकालमुत्तरोत्तराभिवृक्ष्या भववंशजानामचया भवन्तु, दीर्घायुस्त्वंभव, सदाकालं राज्यश्च सुखेनपालय । अनेन धनपालवचसा सम्भृतप्रमोदसन्ततिर्महीपालस्तंकुमारं स्वराज्ये प्रधानपदभाजंविधाय सर्वराज्यसत्तांतस्मै समर्पयामास । ततोमुख्यमन्त्रिपदमारूढस्य धनपालस्य वार्ता सर्वत्र नगरान्तरेषु प्रसरतिम । अथकियद्भिर्दिवसैः स्वनगरेऽपि प्रधानपदप्राप्तिवृत्तान्तस्यश्र
For Private And Personlige Only