________________
Acharyanagememinar
केवलोऽहं भोजनलिप्सया श्रेष्ठिमन्दिरं जग्मिवान् । तस्मिन्क्षणेऽसौ कन्या मयाऽभ्यर्थिता, अहं दीनजनोऽस्मि, भोजनंवितीर्यमदीयांचुधां निवर्त्तय । इत्थं मदीयं वचनं श्रुत्वा सा प्रोवाच-अस्मिञ्जगति रजनौद्वावेवस्तः, त्वंतृतीयः कुतोऽत्र समागतोऽसि । मृषावादी त्वमसि, तस्माचमस्मात्स्थानादपसर, नात्रभोजनं ते मिलिष्यति, इति कन्यागिरं निशम्य सम्प्राप्तविषादोऽहं स्वस्थानमव्रजम् , एतावन्ममवृत्तान्तमस्ति । ततो नृपतिनाश्रेष्ठिपुत्री बभाषे-अस्मिन्नगरे दीनजनास्तुबहवः सन्ति, त्वयाद्वावेव स्त इति कथमुक्तम् ? तस्यस्पष्टार्थ कथय, नृपवचनं स्वीकृत्य कन्यका जगाद-राजन् ! परमार्थतस्तु दीनोद्वावेवजगति विलोक्येते, एकागौर्द्वितीया च दुहिता, यतस्तद्वयस्मैकस्मै नराय जनोददाति तदधीने भवतः। साचग्राहक पुरुषश्चाण्डलजातीयोनिर्धनो नपुंसकोऽनभिज्ञोदरिद्रश्च यदि भवेत्तथापि तमेव भजति, तस्माजगति तद् द्वयंदीनंवर्त्तते नान्यः कश्चिदिति कन्योक्तं वचनं नृपेण स्वीकृत्य द्वितीयः पान्थः पृष्टः-सोऽप्यवदत्-शरणागतवत्सल ? अहमपि क्षुधा| दितो भोजनवाञ्छया श्रेष्ठिगृहं गतवान् , तदा कन्यया प्रोक्तम्-त्वं कोऽसि ? कस्मादायातः! इत्थं तया पृष्टोहं प्रोचिवान् ,
वैदेशिकोऽहमस्मि, भोजनार्थमागतोऽस्मि, तदा साध्वोचत्-अस्मिन्भूतले पान्थौ द्वौ विद्यते, तृतीयस्त्वं कुतः समागतः ! अतस्त्वमसत्यभाषीदृश्यसे, अस्मात्स्थानाडूरं याहि, अत्रस्थितस्यतेऽनलाभो न भविष्यति, इति मदीयं वृत्तान्तं जानीहि ॥ राजा कन्यामपृच्छत्-महेभ्यात्मजे! जगति बहवः पान्था वर्चन्ते, कथं द्वावेव ? तदुत्तरं बेहि, श्रुतभूपवचना साध्वोचत्-है नृप ? जगदुद्योतकरः प्रथमः सूर्योद्वितीयश्चशशाङ्क इति द्वावेव वस्तुतः पान्थौ लक्ष्येते नान्यः। राज्ञातदपि वचनं स्वीचक्रे । राजाऽथतृतीयनरमपृच्छत्-तदासोऽप्यवदत्-भूपाल अहमपि भोजनकासयाऽस्याः कन्याया गृहमव्रजम् । तदानीं सा माम
For
And Persone
ly