________________
श्री भजिवसेन शीलवतीचरितम् । ॥३८॥
चतुष्टयं रूपसुन्दरीसमेतं बलात्कारेण गृहानिष्कासयामासुः, तस्मिन्समये भीतचेतसः पान्था जगदुः-रूपसुन्दरि? अकस्मादिदं द्वितीयः कालचक्रं कस्मादापतितम् ? अस्माभिरेतादृशः कोऽपराधो विहितो येनेदानींनृपतिरस्मानिमा दशां प्रापयति, तत्रापि प्रस्तावः। शलिकारोपणस्यशिक्षा विहिता । ततो महासत्वा निर्दोषभावा रूपसुन्दरी पान्थान्प्रत्यवदत्-भ्रातरः ? युष्माभिः किञ्चिदपि न भेतव्यम् , मयि विद्यमानायां युष्माकं रोममात्रमपि वक्रीकर्तुं का समर्थः । अधुना निर्भयतया राजमन्दिरं वयं व्रजाम |Sal ततो वर्मनिगच्छन्तस्ते नृपदूतान्प्रोचुः-पूर्वमस्माकं राजसमागमो भवतीत्येवं प्रसादो भवद्भिर्विधातव्यः, यतोऽस्माभिर्नृपतेः किश्चिद्विज्ञापनीयं विद्यते, पश्चाद्भवद्भिर्या शिक्षा विधातव्या सा सुखेन क्रियताम् । एतादृशीं तेषां प्रार्थनां स्वीकृत्य दूता भूपतेरग्रे रूपसुन्दरीसहितानराननयन् । तदानी रूपसुन्दरी प्रोवाच-हे नरनाथ ? वयं तव प्रजाःस्मः, अपत्यभावश्च धारयामः, दुष्टेषुदण्डः सुजनेषु च रक्षणं विधेयमिति तवाऽवश्यं कर्त्तव्यमस्ति, तथापि राज्ञो न्यायाधिकारिणवैतादृशोधर्मों नीतिशास्त्रे प्रकीर्तितः, प्रथममागस्कृतांजनानामपराधा वेदनीयास्ततस्तदनुसारेणनीत्युक्तप्रकारेण तेषां शिक्षा विधातव्या ।। एवं राजनीती सत्यां किश्चिदप्यवेक्षणमकृत्वा निरपराधा जना शूलारोपणेन विहिंस्यास्तद्भवादृशानामुत्तमाना भूपतीनामनुचितमस्ति । इत्थं पञ्चदशवर्षाया महेभ्यपुत्र्या गम्भीरतरां वाक्यरचना निशम्य राजा पूर्व पान्थानपृच्छत्-नबीनचन्द्र महेभ्यगृहगमनेन भवतां किं प्रयोजनम् ? तद्भुत, तदा प्रथमो नरो जगाद-भूपाल ? अहंदीनस्थितिरस्मि, इमे तव सम्मुख स्थिता मम जातिवान्धवाः सन्ति, निर्धनाश्च वयमुद्योगार्थ देशान्तरमागताः, बहूनि ग्रामनगराणि परिश्रमन्तोत्र समागताः स्मः । अस्मिन्नगरेत्वत्समीपस्थाया रूपसुन्दर्याः पितुर्नवीनचन्द्रमहेभ्यस्यात्रशाला वर्चते, इति वृत्तान्तं जनमुखाद् विज्ञाय | ॥३८॥
For PvAnd Personale Only