________________
Shri Mahavir Jain Aradhana Kendra
CAK*******@*************•→→
www.kobatirth.org
न ददामि तदा श्रेष्ठपुत्र्या सह महावैरं प्रजायेत, किमत्र मयाविधेयम्, महान् दुःखसमयः सम्प्राप्तः । इत्थं विचारयतस्तस्य चेतसि कचिदुपायः प्रास्फुरत्, सयथा-श्रेष्ठिनोऽगच्वाऽस्याः कन्याया सुधापवादं कथयामि तेन सश्रेष्ठी नमामुपालप्स्यते, रूपसुन्दर्यपिविलचाभविष्यति, एवंहृदि विचार्य स कार्यवाहकः सच्चरं श्रेष्ठिनः समीपं गत्वाकृताञ्जलिः प्रोवाच - स्वामिन् ? लौकिकाऽपवादेन भवदीयं कुलं सकलङ्कं भविष्यति । इति सेवकोदितवाक्यश्रवणेन मयभीतमानसः श्रेष्ठी तत्कारणं तमपृच्छत्किमेतादृशमकृत्यं विहितमस्ति १ येनमे कलङ्कितं कुलं भविष्यति । तदाभृत्योवादीत् - भवतः पुत्री व्यभिचारिणी श्रूयते, तत्सत्यीकर्त्तुस्वयमेवेदानींतदास्थानमण्डपमध्ये प्रयातु । तस्याः पर्यङ्कसन्निधौचत्वारोजारपुरुषा वैदेशिकाः स्थिताः सन्ति । प्रत्येकं रत्नकम्बलं शतं रूपकाश्चत्वयादेया इत्याज्ञापितोऽहं भवत आज्ञां विनाऽनापृच्छयचकथमर्पयामि । तस्मात्सा मयाऽभाणि श्रेष्ठिनं पृष्ट्वा - त्वदुक्तं सर्वं करिष्ये । तदा सा कन्या ममोपरिप्रचण्डं कोपंविधायापशब्दानब्रवीत्, भवतः पुत्रीति विज्ञाय विषमामपि तदुक्तिमहं सोढवान् । त्वद्गृहनिवासेन मयोदरपिठरीपूर्यते, अतस्तवाज्ञां विना कथमसमञ्जसंकार्यं विदधामि ? एवं भृत्येन गदितांवज्रसमां वाचमवधार्य श्रेष्ठी परं कोपमवाप । सच्चरश्चोत्थाय स्वात्मजाया आस्थानभूमौगत्वा ससंभ्रमं स व्यलोकयत् तावत्कन्ययासाकं वार्त्तालापं कुर्वतश्चतुरोनरान्विलोक्यसह सास्वकुलाभिमानस्यमदेन वंशकलङ्कभयेनच प्रज्वलितगात्रोदिगन्त कीर्त्तिर्नृपमान्यः श्रेष्ठ पुत्रीवृत्तान्तं भूपतिसन्निधौ गत्वाऽब्रवीत् । ज्ञाततद्वार्त्ताप्रपश्चो नृपतिर्महेभ्यस्य प्रामाण्यत्वा चदुक्तं वचनं सत्यं मन्वानः सद्यः स्वदूतानादिशत्-नवीन चन्द्रस्य महेभ्यस्य गृहंगत्वा तद्दर्शिताँश्चतुरो नराँस्तत्पुत्रीं रूपसुन्दरीश्च बद्धाऽत्र समानयत । श्रेष्ठिसुतां कारागृहेचिपत, नरचतुष्टयश्च शूलायामारोपयत । इत्थेनृपसमादिष्टा सेवका झटित्युद्यतायुधाः श्रेष्ठिगृहमभ्येत्य तत्रस्थितं नर
For Private And Personal Use Only
Acharya Shri Kaassagarsun Gyanmandr
***********************