________________
Shri Mahavir Jain Aradhana Kendra
श्री
अजितसेन शीलवती -
चरितम् ।
॥ ३६ ॥
13--03
www.kobatirth.org
मृत्युमवाप । इत्थं स्वस्वामिनेशुकवृत्तान्तं कथयित्वा धनपालोऽवदत्- हे प्रजापते ! अस्याः वार्त्तायाः सारांशो भवता गृहीतो नवा १ यदि तदीयो भावार्थः सम्यक् नावबुद्धस्तर्हि द्वितीयां वार्त्ताब्रवीमि सावधानतया सात्वयाश्रूयताम् । नृपतिर्जगाद - रे भृत्याधम ? त्वद्वचने किं ज्ञातव्यमस्ति ! अनया वार्त्तया मम मनसिडीभूतस्तवापराधः किं वृथा भविष्यति ? मुहूर्त्तमात्रं केवलजन्पनेन ते प्रमोदो जातः, इदानीं किं तव कथनीयमवशिष्यते ? शीघ्रं वद, इमे वधकास्त्वां हन्तुं त्वरयन्ते । तादृशं नृपवचनं श्रुत्वा धनपालोऽवोचत्-धराधिपते ! यः प्राणी प्रादुर्भवति स निश्रयेन मृत्युवशं प्रयाति । यतः - अद्यवान्दशतान्ते वा, मृत्युर्वै प्राणिनां ध्रुवम् । गृहीत इव केशेषु, मृत्युनाधर्ममाचरेत् ॥ १ ॥ इत्थं दैवविनिर्मितं भावं जानन्नहं मरणभयान विमि, किन्तु हे नराधिप । चन्द्रसेननृपवत्परिणामे तवाऽप्यनुशयो भविष्यति, अर्थाच्चन्द्रसेनः शुकं निरपराधं हत्वा पथाचापपरायणो भूत्वाऽम्रियत तथैव तवाऽपिस्थितिर्भविष्यति । अतो हे राजन् ? अद्यापि सम्बुद्धो भवसि चेद्वरम् । एतदर्थमेवापरमाख्यानं वदामि तत्सावधानमनास्त्वंशृणु - कस्मिश्चित्समये चत्वारोदीन पुरुषा उद्योगार्थ देशान्तरं वियासवः प्रयाणं चक्रुः, वर्त्मनिभूरिग्रामनगराणि परिभ्रमन्तस्ते नानाकौतुकानि विलोकयन्तः किमद्भिर्वासरैः कौशाम्बी नगरी जग्मुः । चुधार्द्दितास्ते भोजनाय कृतनिश्चया एकस्मिन्प्रदेशेचोतारकं कृत्वा त्रीन्पुरुषस्तत्रमुक्त्वा भोजनस्य व्यवस्थां कर्त्तुमेकोनरस्तन्नगरनिवासिनो नवीनचन्द्रस्यश्रेष्ठिनो गृहं ययौ । गृहाङ्गणे स्थित्वा क्षुधार्दितोऽस्मि मह्यं भोजनं देहीतिदीनवचः श्रुत्वा गृहान्तरानिःसृत्य तस्य श्रेष्ठिनोऽतीववल्लभा रूपसुन्दर्याख्या कन्या बहिराययौ । द्वारिस्थितं देशान्तरादागतं नरं वि लोक्य सा कथयामास - पान्थ १ तुभ्यं भोजनं ददामि मार्गव्ययकृते च पञ्चाशद्रूप्यकान्यच्छामि, परं कस्त्वमसि १ सत्यं
For Private And Personal Use Only
1---)--4600+++++++**
Acharya Shri Kissagarsuri Gyanmandir
द्वितीयः प्रस्तावः ।
।। ३६ ।