________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
| बहि, इत्थं कन्यकोक्तं वचनं स्वीकृत्य पान्थः प्रोवाच-पूज्यतमे ? अहं दीनजनोऽस्मि । तादृशं नरवचनं निशम्य कन्या जगाद-रेपान्थ ? अस्मिलोके रकौतु द्वावेव स्तः। अतस्त्वं वृथालपसि, अस्मात्स्थानादपसर, तुभ्यं किश्चिदपि न दास्यामि । इत्थं तदुक्तिश्रवणेन विषमोनरो मनसि विचिन्तयन्वस्थानं जग्मिवान् । स्वस्य सहचराँश्च सर्व निजवृत्तान्तं न्यवेदयत् । ततोद्वितीयः पान्थस्तस्मिन्नेव समनि गत्वा भोजनान्नस्य प्रार्थनांचक्रे, तद्गिरमाकर्ण्य रूपवती कन्या गृहाद्वहिराययो, तत्रस्थित पथिकं दृष्ट्वा सा पप्रच्छ-कस्त्वमसि ! कुतस्त्वं समायातः १ तेन कथितमहं पान्थोऽस्मि, तद्वचनं निशम्य साऽवदत्-भूमितले द्वावेव पान्थौ भवतो नान्योऽस्ति, त्वमसत्यं वदसि, तस्मात्तुभ्यमपि भोजनानं नदास्यामि, अस्मात्स्थानारंव्रज । इत्थं श्रेष्ठि| सुताया वचनं समाकर्य विलक्ष्यीभूतः सोऽपि स्वस्थानमियाय । स्वमित्रेभ्यः स्वकीयं यथाजातं सर्व वृत्तान्तनिवेदयामास । ततः क्षणं विलम्ब्यतृतीयस्तथैवतत्र गत्वा भोजनं ययाचे, तदा साकन्या पूर्ववत्तमपृच्छत्-अहंनरोऽस्मीति सोऽपि प्रत्युत्तरमदान , रूपसुन्दरीप्रोवाच-त्वमपिमृषालापं करोषि, यत्पृथिव्यां द्वावेव नरौ विद्यते नान्याश्रुतः, तस्मात्त्वमपि भोजनदानीयोनाऽसि । अनेन कन्योक्तवचनेन विषयमानसः क्षुधादितस्तुपाकुलितचित्तःस भृशं निश्वस्य स्वस्थानं प्राप्य स्ववयस्यान्यथोत्पन्नवार्ता समाख्यातवान् । तदुक्तोदन्तश्रवणेन जातकौतुकश्चतुर्थपुरुषस्तत्रगमनाय सजीवभूव, मनसिच विचारयतिस्म, अस्मिन्नामेगईमा बहवः सन्ति. तस्मादहमेवं कथयिष्येऽहं गईभोऽस्मि पश्चात्साकिं वदिष्यति, ? इत्थं कृतनिश्चयः स रूपसुन्दर्याः समीपंगत्वा प्रोवाच-चैदेशिकोऽहं क्षुधाकुलितोऽस्मि, तस्माद्धेभगिनि ? मह्यं भोजनानंदेहि । तया स भणितः, त्वं कोऽसि ? खरोऽस्मीति सोऽवदत्-तच्छ्रुत्वा साप्रोवाच-रेमूर्ख ? अस्मिन्भूतलेद्वौगईभौस्तः, तृतीयस्त्वं कुतः समागतः ?
For Private And Personlige Only