________________
ShriMahavir JanArchanaKendra
Achanah
Gyan
मुक्तिःस्यात् । इत्थंनिश्चित्यतौदम्पती नृपोद्याने गत्वा तस्य वृत्तस्याधोभागे पतितानि मनोहराणि फलानि लात्वा चखदतुः। अतिस्वादुनिरुचिकराणि च विज्ञायाकण्ठं जगध्वा चिरकालीनां तुषां निवर्तयामासतुः। तत्फलमक्षणस्य प्रभावाद् वृद्धावस्था परित्यज्य प्राप्तयौवनौ तौ परस्परयोर्मव्यकान्तिनिरीक्ष्य सविस्मयमृचतुः । मरणोधताभ्यामावाभ्यां फलान्य भक्ष्यन्त, तथापि मरणमनासाद्य प्रत्युत युवावस्थाऽगम्यत । अतः साम्प्रतं गृहं गच्छावः । इत्थं कृतसङ्केतौ तौ दम्पती वमनि प्रयान्तौ मार्गगामिनोजनाः परावर्तितकान्तिवेषौ संवीक्ष्य तयो रिप्रशंसां चक्रुः। सा वाचों जनानां कर्णोपकर्णतो नृपतेः कर्णगोचरीबभूव । नृपतिस्तौ स्त्रीपुरुषौ शीघ्र समाहूय चमत्कृतः सन् तवृत्तान्तमपृच्छत्, श्रेष्ठिना प्रथमं निजदुःखस्यवृत्तान्तं निवेदितम् , ततो वाटिकास्थितवृक्षस्य फलानांभक्षणतो रूपादिसंपत्तेः प्रभावो निवेदितः । अथ भूपतिः स्वशङ्कानिरासाय तवृक्षस्यपञ्चदशफलानि समानाय्यताभ्यामदात् । सभार्यःश्रेष्ठी प्रमुदितोनृपदत्तफलानि जघास । ततो धनपतिनृपतिमित्यभ्यर्थयत्-भो भूपते ?ममाऽतीवदुर्बला स्थितिवतेऽतोऽसौवृक्षोयदि मह्यं जीविकार्थ ददासिचेद्भवतां महान्तमुपकारं मन्ये । एवं तद्वचनं निशम्य श्वस्त्वया समागन्तव्यमित्यादिश्य भूपतिस्तौ दम्पती विससर्ज | अथ नृपतिः स्वमनसि चिन्तयतिस्म-वृद्धावस्थयोस्तयोरेतवृक्षफलाशनेन तरुणाऽवस्था सञ्जाता तदाश्चर्यजनक दृश्यते, नूनं तेन शुकेन महम मृतफलं प्रदत्तं न तत्र सन्देहः, देवीमन्दिरे यत्फलंमयाप्रदत्तं तत्तु केनापि विषजन्तुनाऽऽस्वादितमभविष्यत् , तजन्यविषयोगेनैव सपुत्रकलत्रोदेवीपूजकोमृतः । इति सञ्जातनिश्चयो नृपतिर्भृशं पश्चातापमकरोत्-रे प्राणवल्लभ ? निरपराधिन् ? हे शुकवयें ? स्वार्थमन्तरेण विचारमूढेनमया त्वंहतोऽसि, विगविमृश्यकारिणं मामेवं पश्चात्तापं कुर्वन् कियद्भिर्दिवसैः सनरेन्द्रो
For Private And Personlige Only